________________
चन्द्राप्तिप्रकाशिका टीका प्रा०१ गा०१६-१९ दशमप्राभृतगतान्तरप्रभृतविषयनि. १३
व्याख्या-दशमे मूलप्राभृते द्वाविंशतिसंख्यकानि प्राभृतप्राभृतानि सन्ति, तेषामर्थाधिकारान् दर्शयति-तत्र प्रथमे प्राभृतप्राभृते 'आवलिया' इति-आवलिकाक्रमो वर्णनीयो वर्तते, यथा-अभिजिदादीनि नक्षत्राणि भवन्तीति, अत्र पञ्च प्रतिपत्तयः सन्ति १, 'मुहुत्तग्गे' इति मुहूत्ताग्रम् नक्षत्रविषयकं मुहूर्त्तप्रमाणं द्वितीये प्राभृतप्राभृते वर्तते, अर्थात् चन्द्रेण सह नक्षत्राणां कतिमुहूर्तपर्यन्तं योगो भवति, तथा सूर्येण सह कति अहोरात्रिषु योगो भवतीति २, 'एवं' एवम्-अनेन प्रकारेण भागा' इति भागाः पूर्वपश्चिमादिप्रकारेण तृतीये प्राभृतप्राभृते वक्तव्या इति ३, 'जोगस्स' योगस्य. चतुर्थे प्राभृतप्राभृते योगस्यादिवर्णनीयः, यथा वक्ष्यति च-"कहं ते जोगस्स आदी आहियत्ति वएज्जा" इति रूपः, इदमुक्तं भवति-युगस्यादौ चन्द्रेण सह प्रातः सायंकाले च नक्षत्रस्य योगो भवतीति कथनमत्र वर्तते ४, 'कुला य' कुलानि च पञ्चमे प्राभृते कुलानि, च-शब्दात् उपकुलानि कुलोपकुलानि चाधिकृत्य नक्षत्राणां चन्द्रेण सह योगो भवतीति वर्णनं विद्यते ५, 'पुण्णमासी य' पौर्णमासी च, षष्ठे प्राभृतप्राभृते पूर्णमासीवक्तव्यता, च-शब्दाद् अमावास्याया अपि वक्तव्यता विज्ञेया, पूर्णिमायां यस्य नक्षत्रस्य योगो भवति तन्नक्षत्रसत्कस्य कुलस्य कुलोपकुलस्य च वर्णनं वर्त्तते, एवममावास्यायामपि विज्ञेयम् । एकस्मिन् युगे द्वाषष्टि६२ संख्यकाः : पौर्णमास्यः, द्वाषष्टिसंक्ष्यका एवामावास्या इति सर्वाः संमिलिताः चतुर्विशत्यधिकशत(१२४)संख्यकाः पर्वाणि कथ्यन्ते, इयत्परिमितानामेव नक्षत्राणां चन्द्रेण सह योगो भवतीति ६, 'संनिवाए य' संनिपातश्च, संनिपातः संयोग इति, यस्यां पूर्णिमायां यस्य नक्षत्रस्य चन्द्रेण सह योगो भवति तस्यैव नक्षत्रस्य अमावास्यायां कस्मिन् मासे चन्द्रेण सह योगो भवतीति सप्तमे प्राभृतप्राभृते विद्यते ७, 'संठिई' संस्थितिः, अष्टमे प्राभृतप्राभृते अष्टाविंशतिनक्षत्राणां संस्थानकथनं वर्तते ८, ॥ १६ ॥ 'तारग्ग च' ताराग्रं च, नवमे :प्राभृतप्राभृते अष्टाविंशतिनक्षत्राणां तारापरिमाणं, कस्य नक्षत्रस्य कति ताराः ? इति वर्णयिष्यते ९, 'णेता इ' नेता इति, दशमे प्राभृतप्राभृते 'नेता' इति नायकः रात्रेरधिष्ठायकः' यन्नक्षत्रं यस्मिन् मासे स्वस्योदयेन अस्तमयनेन चाहोरात्रस्य समाप्ति नयति, तथा यन्नक्षत्रमाश्रित्य यस्यां तिथौ रात्रेः पौरुषीभागः क्रियते तस्य वर्णनमत्र वर्तते १०, 'चंदमग्गत्ति यावरे' चन्द्रमार्ग इति चापरस्मिन् , अपरस्मिंश्चअन्यस्मिन् एकादशे प्राभृतप्राभृते, इत्यर्थः चन्द्रमार्ग इति चन्द्रमार्गस्य उपलक्षणात् सूर्यमार्गस्य च नक्षत्राणि समधिकृत्य कथनं वर्त्तते, यथा चन्द्रमण्डलस्य कानि कानि नक्षत्राणि दक्षिणोत्तरभागेन योगं योजयन्तीति, चन्द्रस्य यस्मिन् मण्डले नक्षत्रमण्डलानि संक्रामन्ति यस्मिश्च न संक्रामन्ति, इति, सूर्यचन्द्रमण्डलेषु नक्षत्राणां मण्डलानि संक्रामन्ति इति, सूर्यचन्द्रयोर्विकम्पनक्षेत्रं चेत्यादि