SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ ३२८ चन्द्रप्रज्ञप्तिसूत्रे निर्ज्ञातव्येति । उपसंहरन्नाह-'एवंतु' इत्यादि, 'एवंतु' अनेन पूर्वोक्तप्रकारेण 'पोरिसीए' पौरुष्या: 'वुइढिखया' वृद्धिक्षयौ 'होति' भवतः, इति तौ वृद्धिक्षयौ 'नायव्या' ज्ञातव्यौ ॥७॥ अथायनस्याद्यतः कति दिवसा गता इति पौरुषी प्रमाणमधिकृत्य प्रदर्शयन्नाह-'वुढिवा' इत्यादि, 'वुड्ढीवा हाणी वा' वृद्धि हानिर्वा 'जावइया पोरिसीए दिट्ठा उ' यावती पौरुष्या दृष्टा तु, 'तत्तो' तत्तः तस्सकाशात्-'दिवसगएणं' दिवसगतेन दिवमानां गमनेन 'जं लद्धं' यल्लब्धं प्राप्त दिवसप्रमाणं 'तं खु' तत् खलु 'अयणगयं' अयनगतं तावत्परिमितमयनं गतमित्यवधार्यम् । अस्या गाथाया अयं भावः-ईप्सितदिने 'अद्य अयनस्य कतिदिवसा व्यतीता' इति ज्ञातुमिच्छेत् तदा तदीप्सितदिने यदि दक्षिणायनं भवेत् तदा तस्मिन् दिवसे यावन्तः पादाः अङ्गलसहिताः पौरुष्या वर्धिता भवेयुस्तान् प्रतितिथि एकत्रिंशद्भागचतुष्टयवृद्धिक्रमेण तिथीगणयेत् यावत्यस्तिथयो लभ्यन्ते यावन्तो दिवसान अयनस्य जानीयात् यत् दक्षिणायनस्य इयन्तो दिवसा गता इति । एवमेव उत्तरायणे हानिमाश्रित्य दिवसा गणनीया इति ॥८॥ तदेवमक्षरार्थमाश्रित्य करणगाथानां व्याख्यानं कृतम् साम्प्रतमुदाहरणं प्रदर्श्यते-यदि दक्षिणायने पदद्वयस्योपरि चत्वारि अङ्गुलानि यस्मिन् दिवसे पौरुष्या लभ्यन्ते तदा कोऽपि पृच्छतिअद्य दक्षिणायनस्य कति तिथयो गताः? इति प्रश्ने शृणु-अत्र त्रैराशिककर्मावतारो यथा-यदि अङ्गुलस्य चतुभिरेकत्रिंशद्भागैरेका तिथि र्लभ्यते ततश्चतुर्भिरङ्गुलैः कति तिथयो लभ्यन्ते? इति प्रश्ने राशित्रयस्थापना क्रियते- एकत्रिशद्भागा तिथिः अङ्गुलानि। अगुलान अत्रान्त्यो राशिरङ्गुलरूपः, -४- १ - ४ । " अस्यैकत्रिंशद्भागकरणार्थमेकत्रिंशता गुण्यते जातं चतुर्विशत्यधिकमेकशतम् (१२४) अनेन मध्योराशि रेककरूपो गुण्यते जातं तदेव चतुर्विशत्यधिकं शतम् १२४ । अस्य चतुष्करूपेणादि राशिना भागों हियते लब्धा एकत्रिंशत्संख्येति । एतास्तिथयो ज्ञातव्याः, तेन आगतं दक्षिणायने एकत्रिंशत्तमायां तिथौ पौरुष्यां चतुरङ्गुला वृद्धि रिति दक्षिणायनस्य अद्यकत्रिंशदिनानि गतानिति परिभावनीयमिति । एवमुत्तरायणे पदचतुष्टया दष्टाङ्गुलानि होनानि पौरुष्या यस्मिन् दिने लभ्यन्ते तदा कोऽपि पृच्छति-अद्य उत्तरायणस्य कतितिथयो गताः ? इति प्रश्ने शृणु-अत्रापि त्रैराशिकं क्रियते, यथा-यदि अङ्गुलस्य चतुर्भिरेकत्रिंशद्भागैरेका तिथिर्लभ्यते तदाऽष्टभिरङ्गुलीनैः कतितिथयो लभ्यन्ते ? इति राशित्रयस्थापना क्रियते __ एक त्रिंशद्भागाः। तिथिः। अङ्गुलानिाअत्राप्यन्त्यो राशिरेकत्रिंशद्भागकरणार्थमेकत्रिंशता पा । -४-।-१ । -८-- गुण्यते-जाते अष्टचत्वारिंशदधिके द्वे शते .- (२४८) अनेन राशिना मध्यो राशिरेकक
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy