________________
चन्द्रशतिप्रकाशिका टोका प्रा. १० प्रा०मा १० पौरुषीप्रमाणप्रतिपादकगाथार्थः
प्रवेशेन प्रतितिथौ चतुरेकत्रिंशद्भाग (
३२७
४
) हानिक्रमेण आषाढपूर्णिमायां पुनद्विपदा पौरुषी
३१
जायते, इत्यवधेयमिति ॥३॥
प्रकृतमनुसरामः-अथ कस्मिन्नयने कियत्प्रमाणापद ध्रुमवराशिमधिकृत्य वृद्धिर्हानिर्वा भवतीति प्रदर्शयितुं चतुर्थीगाथा व्याख्यायते - 'दक्खिणवुड्ढी' इत्यादि 'दक्खिणवुड्ढी' दक्षिणे वृद्धिः, दक्षिणायने सूर्ये गते पौरुषी प्रमाणे वृद्धिर्ज्ञातव्या, यथा - आषाढपूर्णिमायां द्विपदापौरुषी भवति तत्पश्चाद्दक्षिणायनं प्ररभतेऽतः पदद्वयस्योपरि अगुलानां वृद्धिर्विज्ञेया । एतदेवाह - 'दुपयाद्विपदात् पदद्वयादुपरि ‘अंगुलयाणं' अङ्गुलकानां 'वुड्ढी होइ' वृद्धि र्भवति सा 'नायव्वा' ज्ञातव्या । उत्तरे अयणे' उत्तरे अयने उत्तरायणे गते सूर्ये या पूर्वे दक्षिणायनान्तिमदिवसे पौष पूर्णिमायां चत्वारः पादाः पौरुषी जाताः तेभ्यः 'चउहिं पाए हि' चतुर्भ्यः पादेभ्य ' हाणीका यव्वा' हानि कर्त्तव्या ||४||
अथ युगमध्ये प्रथमे संवत्सरे दक्षिणायने यस्मादिवसादारभ्य वृद्धि र्भवेत्तं पञ्चमषष्ठेति गाथा द्वयेन प्ररूपयति-'सावण बहुल :' इत्यादि । सावणबहुलपडिवया' श्रावण बहुलप्रतिपदायां युगस्य प्रथमे संवत्सरे श्रावणमासे कृष्णपक्षस्य प्रतिपदायाम् आषाढपूर्णिमातो द्वितीये दिवसे 'दुपया पुण पोरसी धुवा होड' द्विपदा पुनः पौरुषी ध्रुवा - निश्चिता भवति । ' तत्तो' तत्तः तदिवसात् श्रावण कृष्णप्रतिपदात आरभ्याग्रे 'मासेणं' मासेन सूर्यमासमाश्रित्य सार्वत्रिंशदहोरात्रप्रमाणेन, चन्द्रमासमाश्रित्य एकत्रिंशत्तिथिभिः 'चत्तारि अंगुलाई' चत्वारि अंगुलानि पौरुषी 'बड्ढए' वर्धते प्रतिमासान्ते चतुरङ्गुलानां पौरुषो प्रमाणे वृद्धिर्भवति सूर्यस्य दक्षिणायनगतत्वात् ॥ ५ ॥
सूर्यमासचन्द्रमासेति कथमवसीयते ? इति तदेव प्रदर्श्यते - 'इक्कतीस ' इत्यादि, 'इक्कतीसइभागा' इतिकथमवसीयते इति तदेव प्रदर्श्यते - 'इक्कतीसइ' इत्यादि 'इकतीसर भागाति - हिए पुण अंगुलस्स चत्तारि' एकत्रिंशद्भागाः तिथौ पुनरङ्गुलस्य चत्वारि - 'तिहिए' एक
तिथौ अङ्गुलस्य चत्वार एकत्रिंशद्भागाः- वृद्धिरूपेण भवन्ति, सा च ' दक्खिणअयणे -
४
३१
ड्ढी' दक्षिणेऽयने वृद्धिः, एषां चतुरेकत्रिंशद्भागानां दक्षिणायने वृद्धिर्भवति । कियत्पदपर्यन्त मित्याह - 'जाव उ चत्तारि उ पयाई' यावत् तु चत्वारितु पदानि - यावत् . दक्षिणायन चरम दिने चतुष्पदामेता पौरुषी भवेत् तावत् वृद्धिर्ज्ञातव्येति भावः ॥ ६ ॥
अथ पौरुष्याः पदहानिमाह - 'उत्तरअयणे' इत्यादि, उत्तर अयणे' उत्तरे अयने उत्तरायणे 'हाणी' हानि भवेत्, कथमित्याह - ' चउहिं पायाहिं' चतुर्भ्यः पादेभ्यः उत्तरायणप्रथम दिव सादारभ्य चतुर्भ्यः पादेभ्यो हानिः प्रारभते प्रतितिथौ चतुरेकत्रिंशद्भागक्रमेण, कियत्पर्यन्तमित्याह'जाव दो पाया' यावत् द्वौ पादौ यावत् उत्तरायणचरमदिवसे द्विपदा पौरुषी भवेत् तावत् हा