________________
३२६
चन्द्रप्रकतिसूत्रे
एकस्मिन् युगे अधिकमासद्विकयुक्तत्वेन द्वाषष्टिमासा (६२) भवन्ति, एकस्मिन्मासे च पूर्णिमाऽमावास्यारूपं पर्वद्वयं भवति ततो द्वाषष्टि द्वाभ्यां गुण्यते- जातं चतुर्विंशत्यधिकमेकं शतम् (१२४) । ततश्चतुर्विंशत्यधिकशतसंख्यकानिः पर्वाणि पर्वपादेन पर्वचतुर्थी शेन एकत्रिंशदूपेण विभज्यन्ते तेषां भागो हियते इत्यर्थः । हूते च भागे 'जं लद्धं' यल्लब्धं या संख्या चतुष्करूपा लभ्यते तत्परिमितानि 'अंगुलाई' अङ्गुलानि च चत्वार्यङ्लानि चकारादङ्गुलांशाश्च 'पोरिसीए' पौरुष्याः 'खयवुडूढी' क्षयवृद्धी ज्ञातव्ये भागलब्धसंख्यापरिमितानि चत्वार्यशैलानि पौरुष्याः पदध्रुवराशेः क्षयत्वेन उत्तरायणे, तथा पदध्रुवराशेरुपरि वृद्धित्वेन च दक्षिणायने ज्ञातव्यानोति ॥३॥ एतदेवाग्रे चतुर्थगाथाव्याख्यायां प्रदर्शयिष्यते ।
अथ एवम्भूतस्य गुणकारस्य तथा भागहारस्य कथमुत्पत्तिः ? इति तदुत्पत्तिः प्रदर्श्यतेयदि षडशीत्यधिकेन तिथिशतेन चतुर्विंशत्यङ्गुलानि उत्तरायणे क्षयत्वेन दक्षिणायने च वृद्धित्वेन प्राप्यन्ते तदा एकस्यां तिथौ अङ्गुलानां किं प्रमाणः क्षयः किं प्रमाणा च वृद्धि भवेत् ? इति प्रश्ने तत्प्रकार-२ माह अत्र राशित्रयं जातम् तत्स्थापना यथा-- तिथिषु । अङ्गुलानि । दिवसे । .. १८६ । २४ । १
। का हानिदिवा | अत्र अन्त्येन एककरूपेण राशिना मध्यमश्च
।" तुर्विंशतिरूपो राशिर्गुण्यते, एकेन गुणने च एतावानेब जातश्चतुर्विंशतिसंख्यकः २४, “एकेनगुणितं तदेव भवति' इति वचनात् , ततः अस्य चतुर्विंशतिरूपस्य राशेः आयेन षडशीत्यधिकशतरूपेण राशिना भागो हियते, भाज्यराशेश्चतुर्विंशितिरूपस्योपरितनस्य स्तोकत्वे षडशीत्यधिकशतरूपभाजकराशिना भागो न हियते (२४) । ततो भागहाराभावे भाज्य-भाज्यकराश्यो षट्केनापतना क्रियते, षट्केन भागो ह्रियते इत्यर्थः ततो जात उपरितनो भाज्यराशिश्चतुष्करूपः अधस्तनो भाजक राशिश्च एकत्रिंशत् ( . )। ततो लब्धा एकैकस्यां तिथौ चत्वार एकत्रिशद्भागाः (१ ) क्षयःवेन वृद्भित्वेन वेति तदेवमुक्त उपरितनो राशिर्गुणकारः अधस्तनश्च भागहार इति गुणाकार भागहारयोरुत्पत्तिरिति । अत्र सूत्रे आषाढमासस्य चरमदिवसे आषाढपूर्णिमायां द्विपदा पौरुषी भवतीत्युक्तम् । तत आरभ्य दक्षिणायनत्वेन प्रतितिथौ चतुरेकत्रिंशद्भाग (२१) वृद्धिक्रमेण श्रावणपूर्णिमायां चतुरङ्गुलाधिका द्विपदा पौरुषी भवति । एवं प्रतिमास चतुरङ्गुलवृद्धिक्रमेण पौषपूर्णिमायां चतुष्पदा पौरुषी भवति । तत उत्तरायण