SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ चन्द्रशतिप्रकाशिका टीका प्रा०१० प्रा. प्रा. १० सू०१ नक्षत्राणां नेतृत्वं पौरूषीपरिमाणं च ३२१ णेंति' कति नक्षत्राणि नयन्ति स्वस्याऽस्तगमनेन भाद्रपद मासं परिसमापयन्तीत्यर्थः । 'ता' तावत् 'चत्तारि णक्खत्ता ति' चत्वारि नक्षत्राणि नयन्ति । कानि तानीत्याह - 'तं जहा ' इत्यादि “तं जहा ' तद्यथा-तानीमानि - ' धनिट्ठा' धनिष्टा १, 'सयभिसया' शतभिषक् २, 'पुव्यपोह - वया' पूर्वोप्रोष्ठपदा ३, 'उत्तरपोडवया' उत्तराप्रोष्ठपदा ४ प्रोष्ठपदेति भाद्रपदा विज्ञेया । अथातिदेशमाह - ' एवं ' इत्यादि, ' एवं ' एवम् अनेन प्रकारेण 'एएण अभिलावेणं' एतेन पूर्वमनुपदप्रदर्शिताभिलापक्रमेण ' जहेव' यथैव 'जम्बूद्दीवपन्नत्तीए' जम्बूद्वीपप्रज्ञप्त्यां सप्तमवक्षस्कारे कथितं 'तहेव' तथैव 'एत्थेपि' अत्रापि चन्द्रप्रज्ञप्तिसूत्रगतेऽस्मिन् प्रकरणेऽपि 'भाणियव्वं ' भणितव्यम् । तदेव प्रदर्शयाम:- 'तं जहा ' तद्यथा - तत्रत्यं प्रकरणं यथा - 'घणिट्ठा' इत्यादि, 'धणिट्ठा' धनिष्ठा नक्षत्रं 'चोदसअहोरत्ते' भाद्रपदमासस्य प्रथमान् चतुर्दश अहोरात्रान् स्वयमस्तङ्गतं भूत्वा : चतुर्दशाहोरात्रपरिसमापकतया 'णेइ' नयति चतुर्दशाहोरात्रान् परिसमापयतीत्यर्थः, तत्पश्चात् 'सर्याभिसया' शतभिषग्नक्षत्रं 'सत्तअहोरत्ते' सप्ताहोरात्रम् पञ्चदशाहोरात्रादारभ्य एकविंशतितमाहोरात्रपर्यन्तं 'णेइ' नयति स्वयमस्तगमनेन भाद्रपदमासस्यैकविंशतितममहोरात्रं समापयति । । तदनन्तरं 'पुव्वापोहवया' पूर्वाप्रोष्ठपदा पूर्वाभाद्रपदा नक्षत्रं 'अट्ठअहोरत्ते' अष्टाहोरात्रान् द्वाविंशतितमाहोरात्रादारभ्यैकोनत्रिंशत्तमाहोरात्रपर्यन्तं 'णेइ' नयति भाद्रपदमासस्यैकोनत्रिंशदहोरात्रान् परिसमापयति ततश्च 'उत्तरापोट्ठवया' उत्तराप्रोष्ठ पदा - उत्तराभाद्रपदानक्षत्रं ' एगं अहोरतं ' एकमहोरात्रं यो मासपूत शेषएकाऽहोरात्रः स्थितः तम् उत्तराभाद्रपदा नक्षत्रं 'इ' नयति । अस्यैकस्याहोरात्रस्य समाप्तौ भाद्रपदमासः समाप्त भवतीति भावः । ' तंसि च णं' तस्मिंश्च खलु 'मासंसि, मासे भाद्रपदलक्षणे 'अहंगुलाए पोरिसीए' अष्टाङ्गुलया पौरुष्या अष्टाङ्गुलाधिकया पुरुषप्रमाणया 'छायाए ' छायया 'सूरिए ' सूर्य: 'अणुपरियई' अनुपरावर्त्तते प्रतिदिवसं निवर्त्तते, अतः 'तस्स णं मासस्स' तस्य खलु मासस्य 'चरिमे दिवसे' चरमे अन्तिमे दिवसे 'दो पयाई' द्वे पदे तथा 'अट्ठ अंगुलाई ' अष्टाङ्गुलाधिकपदद्वयप्रमिता 'पोरिसी भवइ' पौरुषी भवति २ । एवमग्रेऽपि सर्वत्र विज्ञेयम् । व्याख्या छायागम्यत्वेन सुगमत्वाद् ग्रीष्माणां तृतीयमासज्येष्ठमासपर्यन्तं न वित्रियते, वर्षाणां चतुर्थ माषाढमासंत्वग्रे वक्ष्यतीति । नवरं वर्षा ऋतोस्तृतीय आश्विनमासः ३ । चतुर्थः कार्त्तिकमासः ४ । एवं हेमन्त ऋतोः प्रथमो मार्गशीर्षमासः १, द्वितीयः पौषः २, तृतीयो माघः ३, चतुर्थश्च फाल्गुन मासः ४ इति । एवं ग्रीष्म ऋतोः प्रथम चैत्रो मासः १, द्वितीयः वैशाखः २, तृतीयो - ज्येष्ठः ३, चतुर्थश्च आषाढमासः ४, इति द्वादश मासा भवन्ति । एवमाषाढस्य चरमे दिवसे 'लेहस्थाई दो पयाई' इति रेखास्थो रेखा - पादपर्यन्तवर्त्तिनी सीमा तत्स्थे द्वे पदे पौरुषी भवति परिपूर्ण पद द्वयपरिमिता पौरुषी भवतीति भावः एवं व्याख्येयम् । इयं चतुरङ्गुला वृद्धिः प्रतिमासं श्रावणमासादारभ्य पौषमासपर्यन्तं भवति । तत्पश्चाच्च प्रतिमासं चतुरङ्गुला हानिर्वाच्या सूर्यस्योत्तरायणगतत्वात् । इयं च हानिराषाढमासपर्यन्तं भवति, अत आषाढमासस्य चरमे दिवसे द्विपदा पौरुषी भवति । तदेव प्रदर्श्यते- 'ता गिम्हाणं' इत्यादि 'ता' तावत् गिम्हाणं' ग्रीष्माणां ग्रीष्मऋतोः ११
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy