________________
चन्द्रप्रक्षतिसूत्रे 'चउत्थं मासं' चतुर्थ मासम् आषाढलक्षणं 'कइ णक्खत्ता ऐति' कति नक्षत्राणि नयन्ति स्वस्यास्तगमनेन मासपरिसमापकतया गमयन्ति ? 'ता' तावत् 'तिण्णि णक्खत्ता णे ति' श्रीणि नक्षत्राणि नयन्ति, 'तंजहा तद्यथा-तानीमानि-'मूलो' मूलम् १ पूव्वासाढा' पूर्वाषाढ़ा २ 'उत्तरासाढा' उत्तराषाढ़ा ३ । तत्र 'मूलो' मूलं नक्षत्र 'चोदस अहोरत्ते णेई'
आद्यान् चतुर्दशअहोरात्रान् 'नयति' १। 'पुव्वासाढा' पूर्वाषाढा 'पण्णरसअहोरत्ते णेइ' 'पञ्चदशाहोरात्रान् नयति २। 'उत्तरासाढा' उत्तराषाढा 'एग अहोरत्तं' एकं त्रिंशत्तममहोरात्र ‘णेइ' नयति स्वयमस्तगमनेन त्रिंशत्तमाहोरात्रसमापनपूर्वकं तमाषाढमासं परिसमा पथतीति भावः 'तंसि च णं मासंसि' तस्मिंश्च आषाढलक्षणे खलु मासे 'वट्टाए' बृत्तया, वर्तलया वृत्तस्य प्रकाश्यवस्तुनः वृत्तया 'छायया' इत्यग्रेण सम्बन्धः, एवं 'समचउरंससंठियाए' समचतुरस्रसंस्थितया समचतुरस्रसंस्थानवतः प्रकाश्य वस्तुनः समचतुरस्राकारया छायया, तथा 'णग्गोहपरिमंडलाए' न्यग्रोधपरिमण्डलया न्यग्रोधो वट; तदाकारस्य प्रकाश्यवस्तुनस्तदाकारया, छायया, उपलक्षणमेतत् अनेन यत्संस्थानसंस्थितं प्रकाश्यं वस्तु भवति तस्य छायाऽपि तत्संस्थानवती भवतीति सर्वसंस्थानेषु विज्ञेयम् यत् आषाढमासे प्रायः सर्वस्यापि प्रकाश्यवस्तुनः दिवसस्य चतुर्भागेऽतिक्रान्ते चतुर्भागे शेषे वा स्वप्रमाणा छाया भवति, निश्चयनयेन तु आषाढमासस्य चरमे दिवसे, तत्रापि सूर्ये सर्वाभ्यन्तरमण्डले चारं चरति सति प्रकाश्यवस्तु संस्थानसदृशा छाया भवति. अत एवोक्तम् “वट्टस्स वट्टयाए" इत्यादि । एतदेव सूत्रकारः स्पष्टयति 'सकायमणुरंगिणीए' इति । 'सकायमणुरंगिणीए' स्वकायमनुरङ्गिण्या-स्वस्य स्वकीयस्य छायानिबन्धनस्य प्रकाश्यवस्तुनः कायः--शरीरं स्वकायस्तम् अनु रज्यते-अनुकारं विदधातीत्येवं शीला अनुरङ्गिणी 'द्विषद्गृह' इत्यादिना धिनञ् प्रत्ययः तया स्वकायमनुरंङ्गिण्या 'छायाए' छायया 'सरिए' सूर्यः 'अणुपरियट्टइ' अनु-प्रतिदिवसं परावर्त्तते । अयमाशयः-आषाढस्य • प्रथमादहोरात्रादारभ्य प्रतिदिवसमन्यान्यमण्डलसंक्रमणे। यथा सर्वस्यापि प्रकाश्यवस्तुनो दिवसस्य चतुर्भागेऽतिक्रान्ते चतुर्भागे शेषे वा स्वानुकारा स्वप्रमाणा च छाया भवेत् तथा कथञ्चनापि सूर्यः परावर्त्तते, इति । ततः 'तस्त णं मासस्स तस्य खलु आषाढस्य मासस्य 'चरिमे दिवसे' चरमे अन्तिमे त्रिंशत्तमे दिवसे 'लेहट्ठाई' रेखापर्यन्तभागवर्तिनी सीमा तत्रस्थिते रेखास्थिते 'दो पयाई' द्वे पदे पदद्वयप्रमिता 'पोरिसी भवइ' पौरुषी भवतीति सूत्रार्थः । अस्य सूत्रस्य विशेषव्याख्या जम्बूद्वीपप्रज्ञप्त्यां मत्कृतायां प्रकाशिकाव्याख्यायां विलोकनीयमिति ।
अत्र यद् आषाढमासस्य चरमदिवसे द्विपदा पौरुषी भवतीत्युक्तं तत् पौरुषी प्रमाणं व्यवहारत उक्तम् , निश्चयतः पुनः सार्धस्त्रिंशताऽहोरात्रै-(३०॥) चतुरङ्गुला वृद्धिः श्रावणमासादराभ्य पौषमासपरिसमाप्तिपर्यन्तं षट्सु मासेषु दक्षिणायनगते सूर्ये भवति, एवमेव चतुरङ्गुला हानिर्माघमासादारभ्याषाढमासपरिसमाप्ति पर्यन्तं षट्सु मासेषु उत्तरायणगते सूर्ये भवतीति ज्ञातव्यम् । निश्चयतः पौरुष्याश्चतुरङ्गला वृदिर्हानिश्च सौरमासमधिकृत्य भवति, सौरमासस्यैव सार्धत्रिंशदिवसप्रमाणत्वात्, अत्र यच्चान्द्रमासा कथितास्ते लोकव्यवहारमाश्रित्य कथिता इति विभावनीयम् ।