SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ गाविस व्याख्या - गौतमः पृच्छति 'ता कहं ते णेया' इति । 'ता' तावत् 'क' कथं केन प्रकारेण 'ते' त्वया 'या' नेता स्वस्यास्तमयनेनाहोरात्रपरिसमापको नक्षत्ररूपो नेता नायकः 'आहिए' आख्यातः ? 'तिवएज्जा' इति वदेत् वदतु कथयतु हे भगवन् ! तदेव प्रश्नयन्नाह - 'ता वासाणं' इत्यादि । 'ता' तावत् ' वासाणं' वर्षाणां वर्षाऋतु सम्बन्धिनां चतुणी मासानां श्रावण-भाद्रपदा - ssश्विन - कार्तिकरूपाणां मध्ये 'पढमं' प्रथमम् - आदि 'मासं' श्रावणलक्षणं 'क' कति कियत्संख्यकानि 'णवखत्ता' नक्षत्राणि 'णेंति' नयन्ति स्वस्यास्तगमनपूर्वकमहोरात्रपरिसमापकतया गमयन्ति । एवं गौतमेन प्रश्ने कृते भगवानाह - 'ता चत्तारी' इत्यादि, 'ता' तावत् 'चत्तारि णक्खत्ता' चत्वारि नक्षत्राणि 'णेंति' क्रमेण नयन्ति तान्येव दर्शयति-तं जहा, इत्यादि तंजहा—तद्यथा-तानीमानि - 'उत्तरासाढा' उत्तराषाढा १, 'अभिई' अभिजित् २ 'सवणो' श्रवणः ३, 'धणिट्ठा' धनिष्ठा ४ चेति । तत्र 'उत्तरासादा' उत्तराषाढा नक्षत्रं 'चोदस' चतुर्दश मासस्यादिमान् चतुर्दश संख्यकान् 'अहोरत्ते' अहोरात्रान् रात्रिन्दिवानि 'इ' नयति स्वस्याऽस्तगमनेनाहोरात्रपरिसमापकतया गमयति १ । तथा तत्पश्चात् चतुर्दशाहोरात्रानन्तरं ‘अभिई' अभिजिन्नक्षत्रं ‘सत्त अहोरते' सप्ताहोरात्रान् पञ्चदशाहोरात्रादारभ्य एकविंशतितमाहोरात्रपर्यन्तं 'इ' नयति स्वयमस्तं प्राप्याहोरात्रपरिसमापकतया गमयति २। तदनन्तरं 'सवणो ' श्रवणः श्रवण नक्षत्रं 'अअहोरत्ते' अष्टाहोरात्रान् - द्वाविंशतितमोहोरात्रादारभ्य एकोनत्रिंशत्तमाहोरात्रपर्यन्तं 'णेइ' नयति । एवं सर्वसंकलनया गता श्रावणमासस्यैकोनत्रिंशदहोरात्राः तदनन्तरं शेषम् ' एगं अहोरत्तं' एकमहोरात्रत्रिंशत्तमं 'घणिठ्ठा' धनिष्ठा नक्षत्रं 'इ' नयति स्वस्याऽस्तगमनेनैकाहोरात्रपरिसमापनपूर्वकं माससमापकतया श्रावणं मासं परिसमापयति । एवं चत्वारि नक्षत्राणि श्रावणमास परिसमापकानि सन्तीति । अथ सूर्यपरावर्त्तनमाह - 'तंसि च णं' इत्यादि, 'तंसि च णं' तस्मिन् उत्तराषाढादिनक्षत्रचतुष्टयेन परिसमाप्यमाने 'मासंसि ' मासे श्रावणे मासे 'चउरंगुलाए पोरसीए' चतुरङ्गुलया चतुरङ्गुलाधिक्या पौरुष्या पुरुष प्रमाणया ' छायाए' छायया 'सूरिए' सूर्यः 'अणुपरियट्टाइ ' ' अनुपरावर्त्तते, 'अनु' इति प्रतिदिवस परावर्त्तते पृथग् भवति । अत्रेदं बोध्यम् - श्रावणमासे प्रथमाहोरात्रादारभ्य प्रति दिवसमन्योन्यमण्डलसंक्रमणेन यथा तस्य श्रावणमासस्यान्तिमे दिवसे तथा कथञ्चनापि द्वे पदे चत्वारि अङ्गुलानि पौरुषी भवेदित्येवं क्रमेण सूर्यस्य संक्रमणं भवति, तदेव दर्शयति - ' तस्स णं' इत्यादि, 'तस्स णं मासस्स' तस्य स्वलु श्रावणस्य मासस्य 'चरमे दिवसे' चरमे दिवसे अन्तिमे दिने 'दोपयाई' ? द्वे पदे - ' चत्तारि अंगुलाणि' चत्वारि अङ्गुलानि चतुरङ्गुलाधिक द्विपदप्रमिता 'पोरिसी भवइ' पौरुषी भवति ॥ १ ॥ अथ वर्षाणां द्वितीयं मासं प्रदर्शयति- 'ता वासाणं दोच्चं' इत्यादि । 'ता' तावत्' ' वासाणं' वर्षाणां वर्षारात्रस्य वर्षाऋतो रित्यर्थः 'दोच्चं मासं द्वितीयं मासं भाद्रपदलक्षणं कइ णक्खत्ता १२०
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy