SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा०१० प्रा.प्रा. १० सू०१ नक्षत्राणां नेतृत्वं पौरूषीपरिमाणं च ३१९ पौरुष्या छायया सूर्यः अनुपरावर्त्तते, तस्य खलु मासस्य चरमे दिवसे त्रीणि पदानि अष्ट अगुलानि पौरुषी भवति । १ । तावत् हेमन्तानां द्वितीयं मासं कति नक्षत्राणि नयन्ति तावत् चत्वारि नक्षत्राणि नयन्ति, तद्यथा-संस्थाना, आर्द्रा पुनर्वसुः पुष्यः । संस्थाना चतुर्दश अहोरात्रान् नयति, आर्द्रा सप्त-अहोरात्रान् नयति, पुनर्वसुः अष्ट अहोरात्रान् नयति, पुष्यः एकमहोरात्रं नयति । तस्मिश्च खल मासे चतुर्विशत्यङ्गुलया पौरुष्या छायया सूर्यः अनुपरावर्तते । तस्य खल मासस्य चरमे दिवसे रेखास्थानि चत्वारिपदानि पौरुषी भवति । २। तावत् हेमन्तानां तृतीयं मास कतिनक्षत्राणि नयन्ति ? तावत्त्रीणि नक्षत्राणि नयन्ति, तद्यथा पुण्यः अश्लेषामघा । पुष्यः चतुर्दश अहोरात्रान् नयति, अश्लेषा पञ्चदश अहोरात्रान् नर्यात मघा एकमहोरात्र नयति । तस्मिश्च खलु मासे विंशत्युगुलया पौरुष्या छायया सूर्यः अनुपरावतते । तस्य खलु मासस्य चरमे दिवसे त्रीणि पदानि अष्टअगुलानि पौरुषी भवति।३ । तावत् हेमन्तानां चतुर्थ मास कति नक्षत्राणि नयन्ति, तावत् त्रीणि नक्षत्राणि नयन्ति तद्यथा-मघा, पूर्वाफल्गुनी, उत्तराफाल्गुनो । मघा चतुर्दश अहोरात्रान् नयति, पूर्वाफाल्गुनी पञ्चदश अहोरात्रान् नयति, उत्तरफाल्गुनी एकमहोरात्रं नयति । तस्मिंश्च खलु मासे षोडशाङ्गुलया पौरुष्या छायया सूर्यः अनुपरावर्तते । तस्य खलु मासस्य चरमे दिवसे त्रोणि पदानि चत्वारि अगुलानि पौरुषी भवति । ४। . तावत् ग्रीष्माणां प्रथम मास कति नक्षत्राणि नयन्ति ! तावत् त्रीणि नक्षत्राणि नयन्ति तद्यथा-उत्तराफाल्गुनी हस्तः चित्रा । उत्तराफाल्गुनो चतुर्दश अहोरात्रान् नयति, हस्तः पञ्चदश अहोरात्रान् नयति, चित्रा एकमहोरात्रं नयति। तस्मिश्च खलु मासे द्वादशाङ्गुलया पौरूष्या छायया सूर्यः अनुपरावर्तते । तस्य खलु मासस्य चरमे दिवसे रेखास्थानि त्रीणि पदानि पौरुषी भवति । १। ____ तावत् ग्रीष्माणां द्वितीय मास कति नक्षत्राणि नयन्ति ? तावत् त्रीणि नक्षत्राणि नयन्ति, तद्यथा-चित्रा, स्वातिः विशाखा । चित्रा चतुर्दश अहोरात्रान् नयति, स्वातिः पञ्चदश अहोरात्रान् नयति, विशाखा एकमहोरात्रं नयति ।तस्मिध खलु मासे अष्टाशुलया पौरुष्या छायया सूर्यः अनुपरावर्तते । तस्य खलु मासस्य चरमे दिवसे वे पदे अष्टअगुलानि पौरुषी भवति । २ । ग्रीष्माणां तृतीय मास कति नक्षत्राणि नयन्ति ? तावत् चत्वारि नक्षत्राणि नयन्ति, तद्यथा-विशाखा अनुराधा ज्येष्टा मूलम् । विशाखा चतुर्दश अहोरात्रान् नति, अनुराधा सप्तअहोरात्रान् नयति, ज्येष्टा अष्ट अहोरात्रान् न पति, मूलम् एकमहोरात्रं नयति तस्मिश्च खलु मासे चतुरङ्गुलया पौरुण्या छायया सूर्यः अनुपरावर्तते । तस्य च खलु मासस्य चरमे दिवसे द्वे चत्वारि अंगुलानि पौरुषी भवति । ३ । ताबत् ग्रीष्माणां चतुर्थ मास कति नक्षत्राणि नयन्ति ? तावत् त्रीणि नक्षत्राणि नयन्ति तद्यथा-मूलं पूर्वाषाढा उत्तराषाढा मूलं चतुर्दश अहोरात्रान् नयति पूर्वाषाढा पञ्चदश अहोरात्रान् नयति, उत्तराषाढा एकं नक्षत्रं नयति । (जम्बूद्वीपप्रज्ञप्तिसंगृहीतः पाठो गतः) यावत् तस्मिश्च खलु मासे 'वृत्तया समचतुरस्रसस्थितया , न्यग्रोधपरिमण्डलया स्वकायमनुरकगिण्या छायया सूर्यः अनुपरावर्तते तस्य खलु मासस्य चरमे दिवसे रेखास्थे द्वे पदे पौरूषी भवति । ४। सू० १
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy