SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रशतिसूत्रे अथ प्रकारान्तरेणेदं सूत्रं व्याख्यायते - ' ता जया णं' इत्यादि 'ता जया णं' तावत् यदाखल 'साविट्ठी' श्राविष्ठी श्रविष्टा - धनिष्ठानक्षत्रं तेन युक्ता पूर्णिमा भवति' तया णं' तदा खलु तत्पूर्णिमातः प्राक्तना 'अमावासा' अमावास्या 'माही' माघी मघा नक्षत्रयुक्ता भवइ' भवति यतो हि व्यवहारनयमतेन पूर्णिमानक्षत्रात् पश्चानुपूर्व्या पञ्चदशे चतुर्दशे वा नक्षत्रेमावास्या भवति श्राविष्ठानक्षत्रात् मघानक्षत्रस्य पश्चानुपूर्व्या पञ्चदशत्वात् एतच्च व्यवहारतः श्रावणमा समधिकृत्यावसेयम्१ एतदेव वैपरीत्येनाह - 'जयर णं यदा खलु 'माही' माघी मघानक्षत्रयुक्ता 'पुण्णिमा भवइ' पूर्णिमा भवति 'तया णं' तदा खलु 'अमावासा' अमावास्या तत्पूर्णिमातः प्राक्तना अमावास्या 'साविट्ठी' श्राविष्ठी धनिष्ठा नक्षत्रयुक्ता भवति मघात आरभ्य पश्चानुपूर्व्या धनिष्ठा नक्षत्रस्य पञ्चदशत्वात् एतच्च व्यवहारतो माघमासमाश्रित्य विज्ञेयम् २ 'जया णं' यदा खलु 'पोइ' प्रोष्ठपदी उत्तराभाद्रपदा नक्षत्रयुक्ता 'पुणिमा' पूर्णिमा 'भवइ' भवति' तया णं तदा खलु ' अमावासा' तत्प्राकतना अमावास्या 'फग्गुणी' फाल्गुनी - उत्तरफाल्गुनी नक्षत्रयुक्ता' भवइ' भवति उत्तरभाद्रपदातः पूर्वमुतरफाल्गुनी नक्षत्रस्य पञ्चदशत्वात् अपान्तरालगतनक्षत्रस्य स्तोककालस्थायित्वेन प्रायो व्यवहारेण न गण्यते लोके अभिजिन्नक्षत्रं वर्जयित्वा शेषसप्तविंशतिनक्षत्राणां व्यवहारत्वात् उक्तञ्च समवायाङ्गसूत्रे - “ जंबुद्दीवे दीवे अभिई वज्जेहिं सत्तावीसाए नक्खतेहिं संववहारो वट्टइ "इति छायाजम्बूद्वीपे द्वीपे अभिजिद्वर्णैः सप्तविंशत्या नक्षत्रैः संव्यवहारो वर्त्तते इतिवचनात् उत्तरभाद्रपदा - नक्षत्रात् उत्तरफाल्गुनीनक्षत्रं पश्चानुपूर्व्या गणने पञ्चदशं भवतीति एतच्च भाद्रपदमासमाश्रित्य प्रोक्तमवसेयम् ३ ‘जया णं’यदा खलु 'फग्गुणी' फाल्गुनीउत्तराफाल्गुनी नक्षत्रयुक्ता यदा 'पुण्णिमा' पूर्णिमा' भवइ' भवति - भवेत् ' तया णं' तदा खलु ' अमावासा' तत्पश्चाद्गताऽमावास्या 'पोवई 'प्रोष्ठपदीउत्तरभाद्रपद नक्षत्रयुक्ता भवइ' भवति - भवेदित्यर्थः उत्तरफाल्गुनीनक्षत्रात् उत्तरभाद्रपदानक्षत्रस्य चतुर्दशत्वात् इदं च फाल्गुनमासमाश्रित्य प्रतिपादितम् ४ 'जया णं' यदा खलु 'आसोई' आश्विनी अश्विनी नक्षत्रयुक्ता 'पुणिमा 'पूर्णिमा' भवइ' भवति भवेत् - ' तयाणं' तदा खलु 'अमावासा' अमावास्या पूर्णिमातः प्राग्गता अमावास्या 'चेत्ती' चैत्री - चित्रा नक्षत्रयुक्ता भवइ, भवति भवेत् अश्विनीनक्षत्रात् पश्चानुपूर्व्या गणने चित्रानक्षत्रस्य पञ्चदशत्वात् एतद्व्यवहारनयेन प्रोक्तम्, निश्चयतस्तु एवं न, इदं व्यवहारत आश्विनमासमधिकृत्य प्रोक्तम्, आश्विनमास भाविन्याममावास्यायां च चित्रानक्षत्रस्य प्रायोऽसम्भवात् अतः व्यवहारनयमतेन' इति पूर्वमेव प्रदशितम् ५ 'जया णं' यदा खलु 'चेती' चैत्री चित्रानक्षत्रयुक्ता 'पुण्णिमा भवइ' पूर्णिमा भवति ' तयाणं' तदा खलु 'अमावासा' पूर्णिमातः प्राक्तना अमावास्या 'आसोई 'आश्विनी अश्विनी नक्षत्रयुक्ता 'भवइ' भवति इदं व्यवहारतश्चत्रमासमाश्रित्य प्रोक्तम् चैत्रैमास भाविन्यममावास्यायामश्विनीनक्षत्रस्य निश्चयनयेन प्रायोऽसम्भवात् ६ 'जयाणं' यदा खलु 'कत्ति ' कार्त्तिकी— कृत्तिकानक्षत्रोपेता 'पुण्णिमाभबई' पूर्णिमा भवति 'तया णं' तदा खलु 'अमावासा' ३०८
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy