SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ चन्द्रशप्तिप्रकाशिका टीका प्रा०१० प्रा. प्रा. ६सू०३ अमावास्थायोगकारी कुलादिनक्षत्रम् २४३ द्वाषष्टिभागस्य चत्वारिंशति सप्तपष्टिभागेषु (९-२.१० गतेषु ३, तथा चतुर्थीमाषाढीममावास्या त्रिंशन्मुहर्तात्मकं मृगशिरो नक्षत्रं सप्तविंशतौ मुहूत्र्तेषु, एकस्य च मुहूर्त्तस्य सप्तत्रिंशतिद्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य त्रिपञ्चाशतिसप्तषष्टिभागेषु(२९-२०५२ समतिक्रान्तेषु ४, तथापञ्चमीमाषाढ़ीममावास्यां पञ्चचत्वारिंशन्मुहूर्तात्मकं पुनर्वसुनक्षत्रं द्वाविंशतौ मुहूर्तेषु, एकस्य च मुहूर्तस्य षोडशसु द्वापष्टिभागेषु एकस्य च द्वाषष्टिभागस्य अष्टसु सप्तषष्टिभागेषु च (२२-१६...)परिपूर्णतां प्राप्तेषु सत्सु परिसमापयतीति । ५ । ॥इति द्वादशामावास्या विचारः समाप्तः॥ गतो द्वादशाऽमावास्यानां परिसमापकचन्द्रयोगकारकनक्षत्राणां विधिः साम्प्रतमेतासामेवामावास्यानां कुलादिसंज्ञकनक्षत्रयोजनां प्रदर्शयति-ता 'सावि&ि णं' इत्यादि गौतमः पृच्छति 'ता' तावत् 'साविष्टुिं णं' श्रावष्टी श्रावणमासभाविनीम् 'अमावासं' अमावास्यां 'किं कुलंजोएइ' किं कुलं कुलसंज्ञकनक्षत्रं 'जोएई' युनक्ति चन्द्रेण सह योगं कृत्वा ताममावास्यां परिसमापयतीतिभावः अथवा 'उवकुलं जोएइ' उपकुलं युनक्ति उपकुलं कुलनक्षत्रात् पूर्वस्थितं नक्षत्रं योगं करोति ? अथवा 'कुलोवकुलं' कुलोपकुलं कुलनक्षत्रात् पश्चानुपा तृतीयं नक्षत्रं 'जोएइ' युनक्ति ? इति प्रश्नः । भगवानाह-हे गौतम ! श्राविष्ठीममावास्यां 'कुलं वा जोएइ' कुलं वा युनक्ति अत्र वा शब्दः अप्यर्थे तेन कुलमपि युनक्तीत्यर्थः एवमग्रेऽपि सर्वत्र विज्ञेय म् तथा 'उवकुलं वा जोएइ' उपकुलमपि युनक्ति किन्तु 'नो लब्भइ कुलोवकुलं' न लभते नो प्राप्नोति कुलोपकुलं, कुलनक्षत्रात् पश्चानुपूर्व्या तृतीयं नक्षत्रं श्राविष्ठीममावास्यां योगकारकत्वेन न प्राप्नोतीति भावः एवं तर्हि कुलत्वेन च उपकुलत्वेन किं किं नक्षत्रं श्राविष्ठीममावास्यां युनतोति प्रश्ने ते द्वे नक्षत्रे प्रदर्शयति 'कुलं जोएमाणे' इत्यादि 'कुलं' कुलं कुलसंज्ञक नक्षत्र 'जोएमाणे' युञ्जन् योगं कुर्वन् 'महाणक्खत्ते' मघानक्षत्रं 'जोएइ युनक्ति चन्द्रेण सह योगं कृत्वा श्राविष्ठीममावास्यां परिसमापयतीति भावः अत्र · कुलनक्षत्रं मघेति तात्पर्यम् अत्र यत् मघानक्षत्रं कुलत्वेन प्रोक्तं तद् व्यवहारतः प्रोक्तम् व्यवहारतो हि व्यतीतायाममावास्यायां वर्तमानायां च प्रतिपदियोऽहोरात्रप्रारम्भेऽमावास्यया सम्बद्धः स समस्तोऽप्यहोरात्रः 'अमावास्या इति व्यवहियते तत एवं व्यवहारमाश्रित्य श्राविष्ट्याममावास्यायां मघानक्षत्रस्य संभवादत्रोक्तं यत् कुलं युञ्जन्मघानक्षत्रं युनक्तीति, किन्तु निश्चयनयेन तु कुलं युञ्जत् पुष्यनक्षत्रं श्राविष्ठीममावास्यां युनक्तीतिप्रतिपत्तव्यं कुलप्रसिद्धया प्रसिद्धस्य तस्यैव श्राविष्ट्याममावास्यायां संभवात् एतच्च प्रागेवोक्तम्, उत्तरसूत्रमपि व्यवहारमाश्रित्य यथा योगं परिभावनीयमिति 'वा' वा अथवा 'उवकुलं' उपकुलं नक्षत्रं 'जोएमाणे युजन् योगं कुर्वन् 'असिलेसा णक्खते' अश्लेषानक्षत्रं मघातः पूर्वस्थितं 'जोएइ' युनक्ति श्राबिष्ठ्याममावास्यायां चन्द्रेण सह योगं करोतीत्यर्थः कुलोपकुलं नक्षत्रं समायातीति भावः ॥
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy