________________
२४२ २४२
चन्द्रप्रक्षप्तिसूत्रे परिसमाप्तेषु, द्वितीयां ज्येष्ठामूली ममावस्यां त्रिंशन्मुहूर्तात्मकं कृत्तिकानक्षत्रं त्रयोविंशतौ मुहूर्तेषु एकस्य च मुहूर्तस्य एकोनविंशतौ द्वाषष्टिभागेषु, एकस्य च द्वोषष्टि भागस्य पञ्चविंशतौ सप्तषष्टि भागेषु (२३ -- व्यतीतेषु २, तृतीयां ज्येष्ठामूलीममावास्यां पञ्चचत्वारिंश
६२६७
६२६७
न्मुहूर्तात्मकं रोहिणीनक्षत्रं द्वात्रिंशति मुहूर्तेषु, एकस्य च मुहूर्त्तस्य एकोनषष्ठौ द्वाषष्टिभागेषु, एकस्य च द्वापष्टिभागस्य एकोनचत्वारिंशति सप्तपष्टिभागेषु (३२५९३९) परिपूर्णतां गतेषु ३, चतुर्थी ज्येष्ठामूलीममावास्यां पञ्चचत्वारिंशन्मुहूर्तात्मकं रोहिणीनक्षत्रं षट्सु मुहूर्तेषु, एकस्य च मुहूर्तस्य द्वात्रिंशतौ द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य द्विपञ्चाशति सप्तषष्टिभागेषु (६३९५
६२६७ परिसमाप्तेषु ४, तथा पञ्चमी ज्येष्ठामूलोममावास्यां त्रिंशन्मुहूर्तात्मकं कृत्तिकानक्षत्रं दशसु मुहूर्तेषु, एकस्य च मुहूर्तस्य पञ्चसु द्वापष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य पञ्चषष्ठौ सप्तषष्टिभागेषु (१० ) समतिक्रान्तेषु समापयति ५।
अथाषाढीममावास्यां सूत्रकारः स्वयं सूत्रालापकेन प्रदर्शयति 'ता आसाढि णं' इत्यादि, 'ता' तावत् 'आसाढिं गं' आषाढी आषाढमासभाविनीम् खलु 'अमावासिं' अमावास्यां 'कइणक्खत्ता जोएंति' कति नक्षत्राणि युञ्जन्ति ? चन्द्रेण सह योगं कृत्वा आषाढीममावास्यां परिसमापयन्ति ? भगवानाह-'ता' इत्यादि, 'ता' तावत् 'तिण्णि णक्खत्ता जोएंति' त्रीणि नक्षत्राणि युञ्जन्ति 'तं जहा' तद्यथा- 'अदा पुणव्वम् पुस्सो' आर्द्रा, पुनर्वसुः, पुष्यः ।१२। अत्रापि इमानि पूर्वोक्तानि त्रीणि नक्षत्राणि व्यवहारमाश्रित्य प्रोक्तानि, निश्चयनयेन पुनरिमानि वक्ष्यमाणानि त्रीणि नक्षत्राणि आषाढीममावास्यां परिसमापयन्ति तानि यथा-मृगशिरः, आर्द्रा, पुनर्वसुश्चेति तत्र प्रथमामाषाढीममावास्यां पञ्चदशमुहूर्तात्मकमानक्षत्रं दशसु मुहूर्तेषु एकस्य च मुहूर्तस्य एकपञ्चाशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य त्रयोदशसु सप्तषष्टिभागेषु (१०-११
६२
१३) व्यक्तिकान्तेषु १, यथा-द्वितीयामाषाढीममावास्यां त्रिंशन्मुहूर्तात्मकं मृगशिरो नक्षत्रं सप्तविंशतौ मुहूर्तेषु, एकस्य च मुहूर्तस्य चतुर्विंशती द्वापष्टिभागेषु एकस्य च द्वाषष्टिभागस्य षड्विंशतौ सप्तषष्टिभागेषु २७-२४१२६ गतेषु २, तथा तृतीयामाषाढीममावास्यां पञ्चचत्वारिंशन्मुहूर्तात्मकं पुनर्वसुनक्षत्रं नवसु मुहूर्तेषु एकस्य च मुहूर्तस्य द्वयोषिष्टिभागयोः. एकस्य च
६रा६७