SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ २३० चन्द्रप्रशप्तिसूत्रे आसाढीए य अमावासाए कुलोवकुलं भाणियव्वं' सेसासु कुलोवकुलं णत्थि ॥सू० ३॥ "चंदपन्नत्तीए दसमस्स पाहुडस्स छटुं पाहुडपाहुडं समत्तं ॥ १०-६॥ छाया द्वादश अमावास्याः प्रज्ञप्ताः, तद्यथा--श्राविष्ठी. प्रौष्ठपदी २, यावत् आषाढी १२। तावत् श्राविष्ठी खलु अमावास्यां कति नक्षत्राणि युञ्जन्ति, तावत् द्वे नक्षत्रे युङ्क्तः तद्यथा-अप्लेषा मघा च ५ एवम् एतेन अभिलापेन ज्ञातव्यम्-तावत् प्रौष्ठपदी द्वे नक्षत्रे युक्तः तद्यथा-पूर्वाफाल्गुनी उत्तराफाल्गुनी च २। आश्विनी द्वे तद्यथा हस्तः चित्रा च ३। कार्तिकी द्वे. तद्यथा-स्वातिः विशाखा च ४ मार्गशीर्षीम् त्रीणि, तद्यथा-अनुराधा, ज्येष्ठामूलं च ५। पौषीं द्वे,तद्यथा-पूर्वाषाढा उत्तराषाढा च ६। माधीम् त्रीणि, तद्यथा-अभिजित् श्रवणः धनिष्ठा च ७ फोल्गुनों त्रीणि तद्यथा-शतभिषक पूर्व प्रौष्ठपदा उत्तरप्रौष्ठपदा च, ८ चैत्रीं त्रीणि तद्यथा--उत्तराभाद्रपदा, रेवती, अश्विनी च ९॥ वैशाखी द्वे तद्यथा-भरणी कृत्तिका च १०। ज्येष्ठामूली द्वे तद्यथा-रोहिणी मृगशिरश्च १९॥ तावत् आषाढों खलु अमावास्यां कति नक्षत्राणि युञ्जन्ति ? तावत् त्रीणि नक्षत्राणि युञ्जन्ति, तद्यथा-आर्द्रा, पुनर्वसुः, पुष्यश्च १२॥ तावत् श्रावष्ठी खलु अमावास्यां किं कुलं युनक्ति ? उपकुलं युनक्ति ? कुलोपकुलं युनक्ति ? कुलं वा युनक्ति, उपकुलं वा युनक्ति, नो लभते कुलोपकुलम् कुलं युञ्जत् मघानक्षत्रं युनक्ति, उपकुलं वा युञ्जत् अश्लेषा नक्षत्रं युनक्ति, कुलेन वा युक्ता उपकुलेन वा युक्ता श्राविष्ठी अमावास्या युक्ता इति वक्तव्यं स्यात् । एवं ज्ञातव्यं, नवरं मार्गशीर्ष्या, माध्यां फाल्गुन्याम् आषाढ्यां च अमावास्यायां कुलोपकुलं भणितव्यम् शेषासु कुलोपकुलं नास्ति सू० ३॥ ॥इति चन्द्रप्रज्ञप्तिसूत्रे दशमस्य प्राभृतस्य षष्ठं प्राभृतप्राभृतं समाप्तम् १०-६॥ ___ व्याख्या- 'दुवालस' इति 'दुवालस अमावासा पण्णत्ता' द्वादश अमावास्याः प्रज्ञप्ताः, 'तंजहा' तद्यथा-ता यथा—'साविट्ठी' श्राविष्ठी श्राविष्ठा अपरपर्याया धनिष्ठा, तया समाप्यमानो मासः श्राविष्ठः श्रावणः, श्रावणमासभाविनी अमावस्या श्राविष्ठीति १। 'पोट्ठवई' प्रोष्ठपदी प्रोष्ठपदा उत्तरभाद्रपदा, प्रोष्ठपदानक्षत्रेण समाप्यमानो मासः प्रोष्ठपदः, भाद्रपदमासः, तत्र भाविनी अमावास्या प्रौष्ठपदी कथ्यते २। 'जाव आसाढी' यावत् आषाढी उत्तराषाढानक्षत्रेण समाप्यमानाऽऽषाढमासभाविनी अमावास्या आषाढी १२। अत्र यावत्पदेन-आश्विनी ३, कार्तिकी ४, मार्गशीर्षी ५, पौषी ६, माघी ७, फाल्गुनी ८, चैत्री ९, वैशाखी १०, ज्येष्ठामूली ११, इति पाठस्य संग्रहः । तत्र अश्विनीनक्षत्रसमाप्यमानाऽऽश्विनमासभाविनी अमावास्या आश्विनी ३, कृत्तिकानक्षत्रसमाप्यमान कार्त्तिकमासभाविनी अमावास्या कार्तिकी ४, मृगशिरोनक्षत्र समाप्यमानमार्गशीर्षमासभाविनी अमावास्या मार्गशीर्षी ५, पुष्यनक्षत्रसमाप्यमान पौषमासभाविनी अमावास्या पौषी ६, मघानक्षत्रसमाप्यमान माघमासभाविनी अमावास्या माघी ७, उत्तरा फाल्गुनीनक्षत्रसमाप्यमानफाल्गुनमासभाविनी अमावास्या फाल्गुनी ८, चित्रा नक्षत्रसमाप्यमान चैत्रमासभाविनी अमावास्या चैत्री ९, विशाखा नक्षत्रसमाप्यमान वैशाखमासभाविनी अमावास्या वैशाखी १० मूलनक्षत्र समाप्यमान ज्येष्ठमासभाविनी अमावास्या ज्येष्ठामूली ११। इति
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy