SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका०प्रा.१०प्रा. प्रा. ६ सू०१ अमावास्यायोगकारी कुलादिनक्षत्रम् २३१ द्वादशामावास्यानामानि । अथा योगकारकनक्षत्रसंख्यापूर्वकं कुलादि प्रदर्शयति—'ता साविढि णं' इत्यादि 'ता' तावत् 'साविहिं गं' श्राविष्ठी श्रवणमासभाविनी खलु 'अमावासं अमावास्यां 'कइ णक्खत्ता जोएंति' कति नक्षत्राणि युञ्जन्ति ? 'ता' तावत् 'दोण्णि णक्खत्ता जोएंति' द्वे नक्षत्रे युक्तः, 'तंजहा' तद्यथा-'अस्सेसा महा य' अश्लेषा मघा च, एते द्वे नक्षत्रे श्राविष्ठीममावास्यां चन्द्रेण सह योगं कृत्वा परिसमापयत इति भावः । ____ अयमाशयः--यदिह व्यवहारनयमतेन पौर्णमास्यां यन्नक्षत्रं भवति तस्मादारभ्य पश्चानुपूर्व्या प्रायः पञ्चदश नक्षत्रममावास्यायां भवति । तथा-अमावास्यायां यन्नक्षत्रं भवति तत आरभ्य परतः पूर्वानुपूर्व्या प्रायः पञ्चदशं नक्षत्रं पूर्णिमायां भवतीति सामान्यतो नियमो वर्तते । एतन्नियमात् श्राविष्ठयां पूर्णिमायां किल श्रवणो धनिष्ठा वा प्रोक्ता ततोऽस्यां श्राविष्ठ्याममावास्यायाम्-अश्लेषा मघा वा प्रायो भवत्येव । लोके च तिथि गणितानुसारेण व्यतीतायाममावास्यायां, वर्तमानायामपि च प्रतिपदि, द्वयोर्मध्ये यस्मिन्नहोरात्रे सूर्योदये प्रथमतोऽमावास्या भवेत् स सकलोऽप्यहोरात्रः अमावास्येति व्यवहियते, तत्रामावास्यायाः सूर्योदयव्यापिनीत्वात् तत एवं व्यवहारतोऽमावास्यायां मघानक्षत्रं प्राप्यते इति न कश्चिद्दोषः । निश्चयनयमतेन तु श्राविष्ठीमिमाममावास्यां वक्ष्यमाणानि त्रीणि नक्षत्राणि परिसमापयन्ति, तथाहि—पुनर्वसुः पुष्यः, अश्लेषा चेति । कथमेवमायातीति-अमावास्यायां चन्द्रेण सह नक्षत्रयोगपरिज्ञानार्थ करणमाश्रित्य तत्प्रक्रिया प्रदर्श्यते तत्र करणं तु प्रागुक्तमेव, अथ कोऽपि पृच्छति युगस्यादौ प्रथमां श्राविष्ठीममावास्यां किं नक्षत्रं चन्द्रेण सह योगं युञ्जत् सत् परिसमापयतीति । तत्र पूर्वप्रदर्शितोऽवधार्यराशिः-षट्षष्टिर्मुहूर्ताः, एकस्य च मुहूर्तस्य पञ्च द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य एकः सप्तषष्टि भागः (६६ ) इयत्प्रमाणः स्थाप्यते स्थापयित्वा च प्रथमाममावास्यायाः पृष्ठत्वादेकेन गुण्यते ५१ एकेन गुणने स एव राशिरायातीति तावानेवावधार्यराशिः–(६६ ) जातः तत एतस्माद्राशेः पुनर्वसुनक्षत्रस्य शोधनकं शोध्यते, तच्च शोधनकम्-द्वाविंशतिर्मुहर्ताः, एकस्य च मुहूर्तस्य पद चत्वारिंशद् द्वाषष्टि भागाः- (२२३६) इत्येवं प्रमाणकम् । तत्र पूर्वषट्षष्टि मुहूर्तेभ्यो द्वाविंशति मुहूर्ताः शोधिताः शेषाश्चतुश्चत्वारिंशत् ४४, ततो द्वाषष्टि भागशोधनार्थ तस्माच्चतुश्चत्वारिंशद्राशेरेकं रूपं निष्कास्य तस्य द्वाषष्टि भागाः क्रियन्ते, तत एषु द्वाषष्टिभागेषु ये पञ्च द्वा षष्टिभगाः सन्ति ते प्रक्षिप्यन्ते जाताः सप्तषष्टिः ६७, पूर्वोराशि स्त्रिचत्वारिंशजातः ४३, ततः सप्तषष्टि भागेभ्यः पुनर्वसु शोधनकस्थितः षट् चत्वारिंशद्राशिः ४६, शोध्यते, तिष्ठन्ति शेषा एकविंशतिः २१, तत एक रूप निष्कासनानन्तरं स्थितेभ्यस्त्रिचत्वारिंशतः ४३, मुहूर्तेभ्यस्त्रिंशन्मुहूर्ताः
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy