SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रज्ञप्तिसूत्रे 'विक्खंभे विष्कम्भः-तेषामेव सूर्यादिमण्डलानां विष्कम्भः कियत्प्रमाण इति, उपलक्षणात् बाहल्यस्य आयामस्य परिधेश्च ग्रहणं भवति , इतिविषयकमष्टममन्तरप्राभृतम् , अत्र परमतरूपास्तिस्रः प्रतिपत्तयो वर्तन्ते ८ । 'अह पाहुडा' अष्ट प्राभृतानि प्रथमे प्राभृते एतानि पूर्वोक्तानि अष्टसंख्यकानि अन्तरप्राभृतानि सन्ति । एतेषु अष्टस्वपि प्राभृतप्राभृतेषु परमतरूपाः सर्वा एकोनत्रिंशत् प्रतिपत्तयः सन्तीति ॥१०-११॥ पूर्वमष्टानामन्तरप्राभूतानां निरूपणं कृतम् , सम्प्रति तेषु कुत्र कति कति परमतरूपाः प्रतिपत्तयः सन्तीति संग्रहगाथामाह-'छप्पंच य' इत्यादि । मूलम् छ-प्पंच य सत्तेव य, अट्ठ य तिन्नि य हवंति पडिवत्ती पढमस्स पाहुडस्स उ, हवंति एयाओं पडिवत्ती ॥१२॥ छाया-षट् पञ्च च सप्तैव च अष्ट च तिस्रश्च भवन्ति प्रतिपत्तयः । प्रथमस्य प्राभृतस्य तु, भवन्ति पताः प्रतिपत्तयः ॥१२॥ व्याख्या-अत्रायेषु त्रिषु अन्तरप्राभृतेषु प्रतिपत्तयो ने सन्ति, चतुर्थमारभ्याष्टमपर्यन्तं प्रतिपत्तयः सन्ति, ता इमाः-'छ' 'इति षट् चतुर्थे प्राभृतप्राभृते परमतरूपाः षट् प्रतिपत्तयो वर्त्तन्ते ४ । 'पंच य' इति पञ्च च पश्चमे पञ्चसंख्याकाः प्रतिपत्तयः सन्ति ५ । 'सत्तेव य' सप्तैव च षष्ठे सप्त ६ । 'अट्ट य' अष्ट च सप्तमेऽष्ट ७ । 'तिन्नि य हवंति पडिवत्ती'तिस्रश्च भवन्ति प्रतिपत्तयः, अष्टमे तिस्रः प्रतिपत्तयः सन्ति ८ । एवम् 'पढमस्स पाहुडस्स उ प्रथमस्य प्राभृतस्य तु प्रथमस्य प्राभृतस्य मूलप्राभृतस्य चतुरादिषु पञ्चसु प्राभृतप्राभृतेषु सर्वा एकोनत्रिंशसंख्यका 'भवंति पडिवत्ती' भवन्ति प्रतिपत्तयः, भवन्ति सन्ति प्रतिपत्तयः-अन्यतैर्थिकप्ररूपणारूपा इति सर्वेषु प्राभृतप्राभृतेषु परमतमुपप्रदश्ये पश्चात् स्वमतमपि प्रकटीकृतं भगवतेति ॥१२।। अथ विंशतिमूलप्राभृतेषु द्वितीयमूलप्रभृत्गतानां त्रयाणां प्रभृतप्राभृतानामर्थाधिकारानाह-'पडिवत्तीओ' इत्यादि । मूलम्-पडिवत्तीओ उदए, अदुवऽत्थमणेसु य । भेयघाए कण्णकला, मुहुत्ताण गई इय ॥१३॥ छाया–प्रतिपत्तय उदये अथवाऽस्तमयनेषु च । भेदधातः कर्णकला मुहर्तानां गतिर्रािन ॥१॥ व्याख्या—'पडिवत्तीओ उदए अदुवऽत्थमणेसु य' प्रतिपत्तय उदये अथवाऽस्तमयनेषु च द्वितीयप्राभृतस्य प्रथमेऽन्तरमाभृते सूर्यस्य उदये अथवा अस्तमयनेषु च सूर्यः कुत्रोदेति कुत्रास्त
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy