SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टोका प्रा०१ गा०१०-१२ प्रथमप्राभृतगतान्तरप्राभृतविषयनिरूपणम् ९ तदेवं विशतेरपि प्राभूतानामर्थाधिकाराः प्रदर्शिताः, अथ विंशतेरपि प्राभूतानामपान्तर्गतप्राभतप्राभूतानां विषयान् वर्णयन् पूर्व प्रथमप्राभूतगताष्टप्राभृतप्राभूतानां विषयान् वर्णयति-'वुडोवुड्ढी' इत्यादि । मूलम्वु ड्डो-वुड्डी मुहुत्ताणं, अद्धमंडलसंठिई, के ते चिण्णं पडियरइ, अंतरं किं चरति य॥१०॥ ओगाहइ केवइयं, केवइयं च विकंपई। मंडलाण य संठाणे विक्खंभे अठ्ठ पाहुडा ॥११॥ छाया-वृद्धयपवृद्धी मुहर्तानां अर्धमण्डलसंस्थितिः । कस्ते चीर्ण प्रतिचरति अन्तरं किं चरन्ति च ॥१०॥ अवगाहते कियत्कं, कियत्कं च विकम्पते । मण्डलानां च संस्थानं, विष्कम्भः अष्ट प्राभृतानि ॥११॥ व्याख्या-'वुड्ढो-वुड्ढी मुहुत्ताणं' वृद्धयपवृद्धी मुहूर्तानाम् प्रथमस्य प्राभृतस्याष्टौ प्राभृतप्राभृतानि सन्ति, तेषु प्रथमे प्राभृतप्राभृते अन्तरप्राभृते अहोरात्रगतानां मुहूर्तानां वृद्धिः-वर्धनम्, अपवृद्धिः हानिः, इत्येतद्विषयवक्तव्यता वर्त्तते १ । 'अद्धमंडलसंठिई' अर्धमण्डलसंस्थितिः, दक्षिणोत्तरयोः संचरतोयोः सूर्ययोर्यन्मण्डलार्ध, तस्य प्रत्यहोरात्रं या संस्थितिः=संस्थानम् आकृतिः तस्या वर्णनं द्वितीयेऽन्तरप्राभृते वर्त्तते २ । 'के ते चिण्णं पडियरइ' कस्ते चीर्ण प्रतिचरति, भगवन् ! ते तव मते द्वयोः सूर्ययोर्मध्ये कः सूर्यः कियत्क्षेत्रं स्पृष्ट्वा पुनः अपरेण सूर्येण चीर्णम्=पूर्वसंक्रान्तं क्षेत्रं प्रतिचरति संचरतीति । तथा जम्बूद्वीपे द्वौ सूयौँ स्तः तन्मध्ये कः सूर्यो भरतक्षेत्रस्य, कश्च ऐरवतक्षेत्रस्यास्ति, स्वं प्रति स्वस्य कानि मण्डलानि, कानि चान्यस्य मण्डलानीत्यादिविषयक तृतीयमन्तरप्राभृतम् ३ । 'अंतरं किं चरंति य' अन्तरं किं चरतश्च, द्वावपि सूर्यो परस्परं कियपरिमितस्य क्षेत्रस्यान्तरं कृत्वा चारं चरतः ? इतिविषयकं चतुर्थमन्तरप्राभृतम् , अत्र विषये ऽन्यतैर्थिकप्ररूपणारूपाः षट् प्रतिपत्तयः सन्ति ४ । 'ओगाहइ केवइयं' अवगाहते कियत्कं एकैकेन रात्रिन्दिवेन एकैकः सूर्यः कियत्कंकिय प्रमाणक क्षेत्रमवगाहते-अवगाह्य चारं चरतीतिविषयकं पञ्चममन्तरप्राभृतम् , अत्र परमतरूपाः पञ्च प्रतिपत्तयः सन्ति ५, "केवइयं च विकंपई कियत्कं च विकम्पते, क्रियत्कं-कियत्प्रमाणकं च क्षेत्रं विकम्पते-विमुञ्चति विमुच्य चारं चरतीतिविषयकं षष्ठमन्तरप्राभृतम् , अत्र परमतरूपाः सप्त प्रतिपत्तयः सन्ति ६ । 'मंडलाण य संठाणे' मण्डलानां च संस्थानम् , सूर्यादीनां मण्डलानि कीदृशसंस्थानयुक्तानि वर्तन्ते ! इतिविषयकं सप्तममन्तरप्राभृतम् , अत्रान्यतैर्थिकप्ररूपणारूपा अष्ट प्रतिपत्तयः सन्ति ७ ।
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy