SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा०१ गा० १३-१५ द्वितीयप्राभृतरातान्तरप्राभृतविषयनि. १५ मेतीत्येवंरूपाः प्रतिपत्तयः परमतरूपाः प्रतिपादिताः सन्ति १। द्वितीयेऽन्तरप्राभृते 'भेयघाए कण्णकला' भेदधातः कर्णकला, तत्र भेदः-मण्डलस्यापान्तरालं, तत्र घातो-गमनम् 'हन हिंसागत्योः इतिवचनात्' स केषाश्चिन्मतेनात्र प्रतिपादनीयः, यथा विवक्षितमण्डलं सूर्यः पूरयित्वा तत्पश्चाद् अपरमनन्तरं मण्डलं संक्रामतीत्येवंरूपो भेदधातोऽत्र वर्णनविषयो वर्त्तते । तथा कर्णकलेति-कर्णः कोटिभागः अग्रभाग इत्यर्थः, तमधिकृत्यान्येषां मतेन कला वर्णनीयाः, यथा विवक्षितमण्डले द्वावपि सूर्यों प्रथमक्षणे प्रविष्टौ सन्तौ पूर्वापरस्थितं कोटिद्वयं लक्षीकृत्य बुद्धिद्वारा सम्पूर्णस्य यथावस्थितमण्डलस्य विवक्षितत्वादपरमण्डलस्य कर्णकोटिभाग संमुखीकृत्य एकैकया कलया मात्रयेत्यर्थः अपरमण्डलाभिमुखं गच्छन्तौ चारं चरतः, इत्येवंविषयोऽपि चात्र द्वितीयेऽन्तरप्राभृते वर्तत इति२ । तृतीयेऽन्तरप्राभृते च 'महत्ताणं गई इय' प्रतिमण्डलं मुहूर्तानां गतिरिति गतिपरिमाणं वर्णनीयमस्ति, इति-एवं पूर्वोक्ताः द्वितीयप्राभृतस्य त्रयाणां प्राभृतप्राभूतानां विषयाः कथिता इति ॥१३॥ सूर्यः कदा शीघ्रगतिर्भवति कदा मन्दगतिश्चेति प्रतिपादयिषुराह-'निक्खममाणे' इत्यादि । मूलम्-निक्खममाणे सिग्घगई, पविसंते मंदगई इय । चुलसीइसयं पुरिसाणं, तेसिं च पडिवत्तीओ ॥१४॥ छाया-निष्क्रामन् शीघ्रगतिः, प्रविशन् मन्दगतिरिति । चतुरशीतिशतं पुरुषाणां, तेषां च प्रतिपत्तयः ॥१४॥ व्याख्या-'निक्खममाणे' निष्क्रामन् सर्वाभ्यन्तरमण्डलाद् बहिर्दक्षिणाभिमुख निर्गच्छन् , उत्तरोत्तरमण्डलं संक्रामन् सूर्यः 'सिग्घगई' शीघ्रगतिः शीघ्रगतिमान् भवति । अस्मिन् समये उत्तरोत्तरं दिनप्रमाणस्य हानिः, रात्रिप्रमाणस्य च वृद्धिर्भवतीति भावः । तथा 'पविसंते' प्रविशन् सर्वबाह्यमण्डलादभ्यन्तरमण्डलाभिमुखं गच्छन् सूर्यः 'मंदगई मन्दगतिः अन्तोऽन्तो मण्डलमागच्छन् उत्तरोत्तरं मन्दमन्दतरादिना मन्दगतिः मन्दगतिमान् भवति । अस्मिन् समये उत्तरोत्तरं दिनप्रमाणस्य वृद्धिः रात्रिप्रमाणस्य च हानिर्भवतीति भावः । तेसिं च तेषां च मण्डलानां 'चुलसीइसयं' चतुरशीतिशतं-चतुरशीत्यधिकं शतमेकं मण्डलानां वर्तते, सूर्यस्य तानि मण्डलानि चतुरशीत्यधिकशतसंख्यकानि सन्ति, तेषां च मण्डलानां विषये सूर्यस्य प्रतिमुहर्तगतिपरिमाणवक्तव्यतायां 'पुरिसाणं' पुरुषाणाम् अन्यतैर्थिक जनानां 'पडित्तीओ' प्रतिपत्तयः-मतान्तररूपाः सन्ति ॥१४॥ सम्प्रति द्वितीयमूलप्राभृतगतानां पूर्वोक्तानां त्रयाणां प्राभूतप्राभूतानां मध्ये कस्मिन् कस्मिन् प्राभृतप्राभृते कति कति प्रतिपत्तयः सन्तीति निरूपयन्नाह—'उदयमि' इत्यादि ।
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy