SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टी प्रा० -६ सू१ पूर्णिमायां नक्षत्रयोगनिरूपणम् २८३ द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य द्विपञ्चाशति सप्तपष्टिभागेषु (१४१६१२) गतेषु, तथा एकस्य मुहूर्त्तस्य पञ्चचत्वारिंशति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य पञ्चदशसु सप्तषष्टिभागेषु (०४११५) शेषेषु परिपूरयति ज्येष्टानक्षत्रस्य पञ्चदशमुहूर्तात्मकत्वात् ।४। पञ्चमी ज्येष्ठामूली पौर्णमासीम्—अनुराधानक्षत्रं सप्तदशसु मुहूर्तेषु, एकस्य च मुहूर्तस्य एकपञ्चाशति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य पञ्चषष्टौ सप्तषष्टिभागेषु (१७३७६७) गतेषु, तथा द्वादशसु मुहूर्तेषु, एकस्य च मुहूर्त्तस्य दशसु द्वाषष्टिभागेषु शेषेषु एकस्य च द्वाषष्टिभागस्य द्वयोः सप्तषष्टिभागयोः (१२३०१२) शेषयोश्च परिपूर्णा करोति ।५। तदेवं प्रतिपादिता ज्येष्ठामूली पूर्णिमा, साम्प्रतमाषाढी पूर्णिमां प्रतिपादयितुमाह–'ता आसाढिं णं' इत्यादि, 'ता' तावत् 'आसाढिं णं पुण्णिमं' आषाढीम्-आषाढमासभाविनी पूर्णिमां 'कइणक्खत्ता जोएंति' कति नक्षत्राणि युञ्जन्ति ? कियत्संख्यकानि नक्षत्राणि चन्द्रेण सह भोगं कृत्वा आषाढी पूर्णिमां परिसमापयन्तीत्यर्थः । भगवानाह—'ता दो णवत्ता जोएंति' तावत् द्वे नक्षत्रे युक्तः चन्द्रेण सह पूर्णिमायां योगं कुरुत इति भावः, 'तंजहा' तद्यथा-ते द्वे इमे-'पुव्वा साढा उत्तरासाढा य' पूर्वाषाढा, उत्तराषाढा चेति । तत्र-प्रथमामाषाढ़ी पौर्णमासी उत्तराषाढानक्षत्रम् अष्टादशसु मुहूर्तेषु एकस्य च मुहूर्तस्य पञ्चत्रिंशति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य त्रयोदशसु सप्तषष्टि भागेषु (१८३१.१३) गतेषु, तथा षड् विंशतौ मुहूर्तेषु, एकस्य च मुहूर्तस्य षड् विंशतौ द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य चतुष्पञ्चाशति सप्तषष्टिभागेषु (२६...) शेषेषु समापयति, उत्तराषाढानक्षत्रस्य पञ्चचत्वारिंशन्मुहूर्तात्मकत्वात् ।१। द्वितीयामाषाढी पौर्णमासों पूर्वाषाढानक्षत्रं द्वाविंशतौ मुहूर्तेषु, एकस्य च मुहूर्तस्य अष्टसु द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य षड्विंशतौ सप्तषष्टिभागेषु (२२ ) गतेषु-तथा-सप्तसु मुहूर्तेषु, एकस्य च मुहूर्त्तस्य त्रिपञ्चाशति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य एकचत्वारिंशति सप्तषष्टिभागेषु (७१२४२ शेषेषु च परिपूर्णतां नयति ।२। तृतीयामाषाढी पौर्णमासीम्, उत्तराषाढानक्षत्रम्, एक त्रिंशति मुहूर्तेषु, एकस्य च मुहूर्त्तस्याष्टाचत्वारिंशति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy