SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रेक्षतिसूत्रे ६श६ गर चत्वारिंशति सप्तपष्टिभागेषु (३१ ) गतेषु, तथा -- त्रयोदशसु मुहूर्तेषु, एकस्य च मुहर्तस्य त्रयोदशसु द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य सप्तविंशतौ सप्तषष्टिभागेषु (१३ ३२) शेषेषु समाप्ति नयति ।३। चतुर्थी खलु पौर्णमासीमपि उत्तराषाढा नक्षत्रं पञ्चसु मुहूर्तेषु एकस्य च मुहूर्तस्य एकविंशतौ द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य त्रिपञ्चाशति सप्तषष्टि भागेषु ( ५२०५३) गतेषु, तथा—एकोनचत्वारिंशति मुहूर्तेषु, एकस्य च मुहूर्तस्य चत्वारिंशति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य चतुर्दशसु सप्तषष्टिभागेषु (३९०११)शेषेषु परिणमयात ४। पञ्चमीमाषाढी पौर्णमासी पूर्वाषाढानक्षत्रम् अष्टसु मुहूर्तेषु, एकस्य च मुहूर्त्तस्य षट् पञ्चाशति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य षट् षष्टौ सप्तषष्टि भागेषु (८१६९५) गतेषु, तथा-एकविंशतौ मुहूर्तेषु, एकस्य च मुहूर्तस्य पञ्चसु द्वाषष्टिभागेषु, गतेषु एकस्य च द्वाषष्टि भागस्य एकस्मिन् सप्तषष्टिभागे (२१-१ गते च परिसमापयति ५। अधिकमाससम्बन्धिनी पुनस्तामेव पञ्चमीमाषाढी पौर्णमासीमुत्तराषाढानक्षत्रं पञ्चचत्वारिंशन्मुहूर्तात्मकं स्वयं परिसमाप्नुवन् तामपि परिसमापयति, अधिकमासिक्याषाढी पौर्णमासी समाप्तिसमकालमेवोत्तराषाढा नक्षत्रं चन्द्रेण सह संजातं योगमाश्रित्य स्वयमपि समाप्तिमेतीति भावः । अत्र चन्द्रप्रज्ञप्त्यामस्माभिः पूर्णिमासमापकनक्षत्राणामतिक्रान्ता भागाः शेषा भागाश्चेति : द्वयमपि प्रदर्शितम्, सूर्यप्रज्ञप्तौ तु शेषा एव भागा विवक्षिता नत्वतिक्रान्ता भागा इत्यवधेयम् ॥सू० १॥ ॥ इति पौर्णमासी समापकनक्षत्रप्रकरणं समाप्तम् ॥ पूर्व यानि नक्षत्राणि चन्द्रेण सह योगं कृत्वा यां यां पौर्णमासों समापयन्ति तानि प्रदर्शितानि, साम्प्रतं गतार्थमपि विषयं मन्दमतिप्रबोधनार्थं कुलादि योजनामाह-'ता सावडिं णं' इत्यादि । मूलम् - ता सावहि णं पुण्णिमं किं कुलं जोएइ उपकुलं जोएइ, कुलोवकुलं जोएइ ? । ता कुलं वा जोएइ, उवकुलं वा जोएइ, कुलोवकुलं वा जोएइ । कुलं जोएमाणे धणिहा पक्खत्ते जीएइ, उवकुलं जोएमाणे सवणणक्खत्ते जोएइ, कुलोवकुलं जोएमाणे अभिईणखत्तं जोएइ । साविढि पुणिमं कुलं वा जोएइ, उक्कुलं वा जोएइ, कुलोवकुळे
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy