SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २७६ ५६१६० चन्द्रालिले मुहत्तस्य चत्वारिंशति द्वाषष्टि भागेषु, एकस्य च द्वाषष्टि भागस्याष्टसु सप्तषष्टिभागेषु, १८०० शेषेषु समाप्ति नयति ।५। उक्ता मार्गशीर्षीपौर्णमासी वक्तव्यता, साम्प्रतं पौषी–पौर्णमासी-वक्तव्यतामाह'ता पोसिं णं' इत्यादि 'ता' तावत् 'पोसिं णं' पुणिम' पौषी पौषमासभाविनी खलु पूर्णिमां 'कइ णक्खत्ता जोएंति' कति नक्षत्राणि युञ्जन्ति, कतिसंख्यकानि नक्षत्राणि चन्द्रेण सह योगं कृत्वा पौषीं पूर्णिमा परिसमापयति ? भगवानाह–'ता' तावत् 'तिण्णि णक्खत्ता जोएंति' त्रीणि नक्षत्राणि युञ्जन्ति 'तं जहा' तद्यथा-तानीमानि—'अदा' आर्द्रा 'पुणव्वस्' पुनर्वसुः २, 'पुस्सो' पुष्यः ३, तत्र प्रथमां पौषी पौर्णमासी पुनर्वसुनक्षत्रं द्विचत्वारिंशति मुहर्तेषु, एकस्य च मुहूर्तस्य पञ्चसु द्वाषष्टिभागेषु,. एकस्य च द्वाषष्टिभागस्य सप्तसु सप्तषष्टिभागेषु-(४२ ) गतेषु; तथा-द्वयोर्मुहूर्त्तयोः, एकस्य च मुहूर्तस्य षट्पञ्चाशति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य षष्टौ सप्तषष्टिभागेषु (२०६१ शेषेषु समाप्ति नयति पुनवसुनक्षत्रस्य पञ्च चत्वारिंशन्मुहूर्तात्मकत्वात् १, द्वितीयां पौषीं पौर्णमासी पुनर्वसुनक्षत्रम् पञ्चदशसु मुहूर्तेषु, एकस्य च मुहूर्तस्य चत्वारिंशति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभामस्य विंशतौ सप्तषष्टिभागेषु (१५ ) गतेषु, तथा-एकोनत्रिंशति मुहूर्तेषु, एकस्य च मुहूर्तस्यै कविंशतौ द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य सप्तचत्वारिंशति सप्तषष्टि भागेषु (२९२१ ) शेषेषु समापयति २, तृतीयां पौषीं पूर्णिमामग्रेऽधिकमासस्यागमिष्यमाणत्वादधिकमासादर्वाक्तनी पौर्णमासीमा नक्षत्रं चतुर्षु मुहर्तेषु, एकस्य च मुहूर्तस्य त्रयोदशसु द्वापष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य त्रयस्त्रिंशति सप्तषष्टिभागेषु (४२२०२३) गतेषु तथा-दशसु मुद्धतेषु, एकस्य च मुहूर्तस्याष्टचत्वारिंशति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य चतुस्तिशति सप्तषष्टिभागेषु (१०४०।२४) शेषेषु समाप्ति नयति, आर्द्रानक्षत्रस्य पञ्चदशमुहूर्तात्मकत्वात् ३, पुनश्चाधिकमासंभाविनीमपरां तृतीयां पौषीं पूर्णिमां पुष्यनक्षत्रं दशसु मुहर्तेषु, एकस्य च मुहूर्तस्याष्टादशसु द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य चतुस्त्रिंशति सप्तषष्टिभागेषु साद ४०२० ६२।६७ ६२।६७
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy