________________
चन्द्रशप्तिप्रकाशिका टीका प्रा० १०-६सू० १ पूर्णिमायां नक्षत्रयोगनिरूपण २७५
उक्तः कात्तिकीपूर्णिमाया नक्षत्रयोगप्रकारः, अथ मार्गशीर्षमास पूर्णिमाया नक्षत्रयोगमाह'मग्गसिरिं गं' इत्यादि ‘मग्गसिरि णं पुण्णिम' मार्गशीर्षी मार्गशीर्षमासभाविनी खलु पूर्णिमा 'कइ णक्खत्ता जएंति' कतिनक्षत्राणि युञ्जन्ति? भगवन्नाह-'ता' तावत्'दोण्णि णक्खत्ता जएंति' द्वे नक्षत्रे युङ्क्त 'तंजहा' तद्यथा-ते इमे—'रोहिणी मग्गसिरोय' रोहिणी मृगशिरश्च । तत्रप्रथमां मार्गशीर्षी पूर्णिमां मृगशिरोनक्षत्रम्—एकविंशतौ मुहूर्तेषु, एकस्य च मुहूर्तस्य-सम्बन्धिनो द्वाषष्टिभागस्य षट्स् सप्तषष्टिभागेषु २१० २१ गतेषु तथा—अष्टसु मुहूर्तेषु, एकस्य च मुहूतस्य सम्बन्धिद्वाषष्टिभागस्य एकषष्टौ सप्तषष्टि भागेषु (
८६ शेषेषु समाप्तिं नयति ।१। द्वितीयां मार्गशीर्षी पूर्णिमां रोहिणीनक्षत्रम्—एकोनचत्वारिंशति मुहूर्तेषु, एकस्य च मुहूर्त्तस्य पञ्चत्रिंशति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्यैकोनविंशतौ सप्तषष्टिभागेषु ३९ ३१/१९ गतेषु तथा पञ्चसु मुहूर्तेषु, एकस्य च मुहूर्तस्य षड्विंशतौ द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य अष्टचत्वारिंशति सप्तषष्टिभागेषु ५६० शेषेषु समापयति, रोहिणीनक्षत्रस्य पश्चचत्वारिंशन्मुहूर्तात्मकत्वात् ॥२॥ तृतीयां मार्गशीर्षी पौर्णमासीमपि रोहिणीनक्षत्रम् त्रयोदशसुमुहर्तेषु, एकस्य च मुहूर्तस्याष्टसु द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य द्वाविंशति-सप्तषष्टि भागेषु १३८ गतेषु तथा एकत्रिंशति मुहूर्तेषु एकस्य च मुहूर्त्तस्य त्रिपञ्चाशति द्वाषष्टि
६२/६७
श६७
भागेषु, एकस्य च द्वाषष्टिः भागस्य पञ्चचत्वारिंशति सप्तषष्टि भागेषु– ३१ शेषेषु परिपूरयति ।३। चतुर्थी मार्गशीर्षी पूर्णिमां मृगशिरोनक्षत्रे सप्तसु मुहूर्तेषु एकस्य च मुहूर्तस्य अष्टचत्वारिंशति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य षट्चत्वारिंशति सप्तष्टिभागेषु ७४८१४६
६२१६७ गतेषु तथा द्वाविंशतौ मुहूर्तेषु एकस्य च मुहूर्तस्य त्रयोदशसु षष्टिभागेषु, एकस्य च द्वाषष्टि भागस्यैकविंशतौ सप्तषष्टि भागेषु २२१३२१ शेषेषु समापयति ।४। पञ्चमी मार्गशीर्षी पूर्णिमां रोहिणी नक्षत्रं षड्विंशतौ मुहूर्तेषु, एकस्य च मुहूर्त्तस्यैकविंशतौ द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्यैकोनषष्टौ सप्तषष्टिभागेषु २ २१५९ गतेषु, तथा अष्टादशसु मुहूर्तेषु, एकस्य च