________________
२७४
६२/६७
चन्द्रप्रज्ञप्तिसूत्रे ऽत्र भरण्याः कृत्तिकायाश्च योगप्रकारमाह--प्रथमां कार्तिकी पूर्णिमा कृत्तिकानक्षत्रमेकोनत्रिंशति मुहर्तेषु, एकस्य च मुहूर्तस्य सप्तपश्चाशति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य पश्चसु
सप्तषष्टि भागेषु (२९११ गतेषु तथैकस्य मुहूर्तस्य चतुर्यु द्वाषष्टिभागेषु, एकस्य च द्वाषष्टि भागस्य द्वाषष्टौ सप्तषष्टि भागेषु (०४.६२) शेषेषु समाप्ति नयति ।। द्वितीयां कार्तिकी पूर्णिमां कृत्तिकानक्षत्रं त्रिषु मुहूर्तेषु, एकस्य च मुहूर्त्तस्य त्रिंशति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टि भागस्य अष्टादशसु सप्तषष्टिभागेषु ३३०१ गतेषु तथा षड्विंशतौ मुहूर्तेषु, एकस्य च मुहू तस्य एकत्रिंशति द्वाषष्टि भागेषु, एकस्य च द्वाषष्टिभागस्य एकोनपञ्चाशति सप्तषष्टिभागेषु ( २६३१।४९) शेषेषु समापयति ।२। तृतीयां कार्तिकी पूर्णिमामश्विनीनक्षत्रं द्वाविंशतौ मुहूर्तेषु, एकस्य च मुहूर्तस्य त्रिषु द्वाषष्टि भागेषु एकस्य च द्विषष्टि भागस्य एकत्रिंशति सप्तषष्टिभागेषु
गतेषु तथा सप्तसु मुहूर्तेषु, एकस्य च मुहूर्तस्य अष्टपञ्चाशति द्वापष्टिभागेषु, एकस्य च द्वाष्टिभागस्य षट्त्रिंशति सप्तषष्टि भागेषु(७ ५८३६) शेषेषु समापयति ।३। चतुर्थी कार्तिकी पौर्णमासी कृत्तिकानक्षत्रं त्रयोदशसु मुहूर्तेषु एकस्य च मुहूर्तस्य त्रिषु द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य पञ्च चत्वारिंशति सप्तषष्टिभागेषु [ १३३१४५.] गतेषु तथा षोडशसु मुहूर्तेषु, एकस्य च मुहूर्त्तस्याष्टापञ्चाशति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य द्वाविंशतो सप्तषष्टिभागेषु ( १६५८२२ शेषेषु समापयति ।४। पञ्चर्मी कार्तिकी पूर्णिमां भरणीनक्षत्रं पञ्चसु मुहूर्तेषु, एकस्य च मुहूर्तस्य षोडशसु द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्याष्टपञ्चाशति सप्तषष्टि भागेषु ५१६५ गतेषु, तथा नवसु मुहूर्तेषु, एकस्य च मुहूर्त्तस्य पञ्चचत्वारिंशति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य नवसु सप्तषष्टिभागेषु ९४६ शेषेषु समाप्तिं नयति, भरणीनक्षत्रस्य पञ्चदशमुहूर्तात्मकत्वात् ।५।
६६७
६२६७