SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा० १०- ६सू. १ पूर्णिमायां नक्षत्रयोगनिरूपणम् २७९ पयति । पञ्चमी श्राविष्ठी पूर्णिमां युगादित एकोनपश्चाशत्तमां प्रवणनक्षत्रं सप्तदशसु मुहूर्तेषु, एकस्य मुहूर्तस्यैकस्मिन् द्वाषष्टिभागे, एकस्य च द्वाषष्टिभागस्य पञ्चचत्वारिंशति सप्तषष्टिभागेषु १७/१/४५ । गतेषु, तथा द्वादशसु मुहूर्तेषु, एकस्य च मुहूर्तस्य षष्टिसंख्यकेषु द्वापष्टिभागेषु, एकस्य च द्वापष्टिभागस्य द्वाविंशतौ सप्तषष्टिभागेषु (१२०२०) शेषेषु परिसमापयति । अतएव सूत्रे कथितम्-"ता साविढि ण पुण्णमासिं कइ णक्खत्ता जोएंति ? ता तिण्णिणक्खत्ता जोएंति, तं जहा अभिई १ सवणो२ धणिद्वा३ ।" इति ॥१॥ __तदेवं श्राविष्ठोपूर्णिमापरिसमापकानि नक्षत्राणि प्रदर्शितानि, साम्प्रतं यानि नक्षत्राणि प्रोष्ठपदी पूर्णिमां समापयन्ति, तानि प्रदर्शयति - 'ता पोवई णं' इत्यादि । 'ता' तावत् 'पोहबई णं पुण्णिमं' प्रोष्ठपदी भाद्रपदमासभाविनी खलु पूर्णिमा 'कई' कति कति संख्यकानि ‘णक्खत्ता' नक्षत्राणि चन्द्रेण 'जोएंति' युञ्जन्ति इत्यादि, कतिनक्षत्राणि चन्द्रेण सह योगं युक्तवा भाद्रपदभाविनी पूर्णिमां समापयन्तीति भावः । भगवानाह ----- 'ता तिण्णि' इत्यादि । 'ता' तावत् 'तिणि णक्खत्ता' णि नक्षत्राणि 'जोएंति' युञ्जन्ति प्रोष्ठपदीपूर्णिमानक्षत्रत्रययुक्ता भवतीति भावः। तान्येव दर्शयति- 'तं जहा' इत्यादि 'तं जहा' तद्यथा तानि नक्षत्राणि यथा-'सयभिसया' शतभिषक् १ 'पुन्वा पोद्ववया' पूर्वप्रोष्ठपदा पूर्वाभाद्रपदा २ 'उत्तरा पोहवया' उत्तरप्रोष्टपदा-उत्तराभाद्रपदा ३॥ तत्र प्रथमां प्रोष्टपदी पूर्णिमाम् उत्तरभाद्रपदानक्षत्रं सप्तदशसु मुहूर्तेषु, एकस्य च मुहूर्तस्य सप्तचत्वारिंशति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य त्रिषु सप्तषष्टिभागेषु, (१७-१३) गतेषु, तथा सप्तविंशतौ मुहूर्तेषु, एकस्य च मुहूर्तस्य चतुर्दशसु द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य चतुःषष्टी सप्तषष्टिभागेषु (२७११६७) शेषेषु समापयति उत्तरभाद्रपदानक्षत्रस्य पञ्चचत्वारिशन्मुहूर्तात्मकत्वात् १। द्वितीयां प्रोष्टपदी पूर्णिमा पूर्वभाद्रपदानक्षत्रम्-एकविंशती मुहूर्तेषु, एकस्य मुहूर्तस्य च विंशतौ द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य षोडशसु सप्तषष्टिभागेषु (२१०१५) गतेषु, तथा अष्टसु मुहूर्तेषु, एकस्य च मुहूर्त्तस्य एकचत्वारिंशति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य एक पञ्चाशति सप्तषष्टिभागेषु ( ८४१५१) शेषेषु परिसमाप्ति नयति २ । तृतीयां प्रोष्ठपदी पूर्णिमां शतभिषग् नक्षत्रं नवस मुहूत्र्तेषु, एकस्य च मुहूर्तस्य पञ्चपञ्चा शति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य एकोन त्रिंशति सप्तषष्टिभागेषु (९१६१७) ६७
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy