________________
२७०
चन्द्रप्राप्तिसूत्र
६७
६२६७"
६२ ६७
तस्य - श्चदशसु द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य पञ्चदशसु सप्तषष्टिभागेषु ( ०-१ ११) गतेषु सत्सु, तथा एकोनविंशति मुहूर्तेषु, एकस्य च मुहूर्त्तस्य षट्चत्वारिंशति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य द्विपञ्चाशति सप्तषष्टिभागेषु (२९. १६)शेषेषु च धनिष्ठानक्षत्रं द्वितीयां श्राविष्ठों पूर्णिमा परिसमापयति । यदा तृतीयां श्राविष्ठी पूर्णिमां ज्ञातुमिच्छेत् तदा सा युगस्यादितः पञ्चविंशतितमेति पञ्चविंशत्या पूर्वोक्तोऽवधार्यराशिर्गुण्यते, जातानि पञ्चाशदधिकानि षोडशशतानि (१६५०), एकस्य च मुहूर्तस्य पञ्चविंशत्यधिकमेकं शतं द्वाषष्टिभागाः (१२५) एकस्य च द्वाषष्टि भागस्य पञ्चविंशतिः सप्तपष्टिभागाः २५ ( १६५०१५)। अस्मात् अष्ट त्रिंशदधिकषोडशशतमुहूर्ताः, एकस्य च मुहूर्तस्य अष्टचत्वारिंशद् द्वाषष्टि भागाः, एकस्य च द्वाषष्टिभागस्य द्वात्रिंशदधिकं शतम् ( १६३८-१८४१३२, योर्नक्षत्रपर्याययोः शोध्यन्ते, स्थिताः शेषाः द्वादशमुहर्ताः, एकस्य च मुहूर्तस्य पंञ्चसप्ततिदुषिष्टिभागाः, एकस्य च द्वाषष्टिभागस्य सप्तविंशतिः सप्तषष्टिभागाः १२७५२७॥ ततो नव मुहूर्ताः, एकस्य च मुहूर्त्तस्य चतुर्विशति षिष्टिभागाः एकस्य च द्वाष्टिभागस्य षट्षष्टिः सप्तषष्टिभागाः (९-8-)शोध्यन्ते, तिष्ठन्ति शेषाः त्रयो मुहूर्ताः, एकस्य च मुहूतस्य पञ्चाशत् द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्याष्टाविंशतिः सप्तषष्टिभागाः (३८०२८ एतेषु भागेषु गतेषु, तथा षड्विंशतौ मुहूर्तेषु, एकस्य च मुहूर्तस्य एकादशसु द्वाषष्टिभागेषु, एकस्य च द्वाघष्टिभागस्य एकोनचत्वारिंशति सप्तषष्टिभागेषु (२६११३९) शेषेषु सत्सु च श्रवणनक्षत्रं तृतीयां श्राविष्ठी पौर्णमासी समापयति । एवं रीत्या चतुर्थी श्राविष्ठी पूर्णिमा युगस्यादितः सप्तत्रिंशत्तमा (३७) धनिष्ठानक्षत्रं त्रयोदशसु मुहूर्तेषु, एकस्य च मुहूर्तस्याष्टा विशती द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य द्विचत्वारिंशति सप्तषष्टिभागेषु, (१३ २०१२) गतेषु तथा षोडशसु मुहूर्तेषु, एकस्य च मुहूर्तस्य त्रयस्त्रिंशति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य पञ्चविंशतौ सप्तषष्टिभागेषु (१६ ) शेषेषु सत्सु परिसमा
६।६७
६२६७