________________
२६८
चन्द्रप्राप्तिसूत्रे उपसंहारमाह-'एयाई' इत्यादि, 'एयाई' एतानि पूर्वप्रदर्शितानि शोधनकानि यथायोगं 'सोहइत्ता' शोधयित्वा एतेषु शोधितेषु सत्सु 'जं सेस' यत् शेषं भवेत् 'तं' तत् 'नक्खत्तं हवई' नक्षत्रं भवति । 'इत्थ य' अत्र च एतस्मिन् नक्षत्रे 'उडुवई' उडुपतिः चन्द्रः 'सूरेण समं' सूरेण सम, सूर्येण सह स्थित्वा 'अमावासं करेइ' अमावास्यां करोति स्वाभीप्सितामावास्यायामेतन्नक्षत्रं भवतीति भावः ॥११॥ एवममावास्याविषयचन्द्रयोगपरिज्ञानार्थ करणमभिहितम्, साम्प्रतं पूर्णिमाविषयचन्द्रयोगपरिज्ञानार्थ करणमाह-'इच्छापुण्णिमगुणिओ' इत्यादि, अत्रापि योऽमावास्या चन्द्रयोगपरिज्ञानेऽवधार्यराशिः प्रोक्तः स एव ग्राह्यः । 'इच्छापुण्णिमगुणिओ' इच्छितपूर्णिमागुणितः इति अयमवधार्यराशिः-(६६६ ) उक्तश्चैष राशिः पूर्वं द्वितीयगाथायां, तथाहि
'छावट्ठीयमुहुत्ता, बिसद्विभागा य पंच पडिपुन्ना। बासहिभागसहिगो य इक्को हवइ भागो२॥ इति, व्याख्यातेयं गाथा तत्रैवेति । 'सोत्थ' सोऽत्र 'अवहारो अ' अवधार्यराशिः पूर्णिमां ज्ञातुमिच्छति तत्संख्यया गुणितः 'कायव्वो होइ' कर्त्तव्यो भवति गुणयितव्य इत्यर्थः, गुणयित्वा च 'तं चेव य सोहणगं' तदेव च शोधनकं पूर्वप्रदर्शितं शोधनकम् 'अभिइआई अभिजिदादिकं 'कायव्,' कर्त्तव्यम्, न तु पुनर्वसुप्रभृतिकमिति भावः ।१२। 'सुद्धम्मि य सोहणगे' शुद्धे च शोधनके, कृते च शोधनके 'जं सेसं तं' यत् शेषं तत् 'नक्खत्तं' नक्षत्रं 'हविज्ज' भवेत् तस्यां पूर्णिमायाम् । 'तत्थ य' तत्र च तस्मिन् नक्षत्रे 'उडुवई' उडुपतिः चन्द्रः 'पडिपुन्नो' प्रतिपूर्णः सकलकलासम्पन्नः 'विमल पुण्णिम' विमलां निर्मला पूर्णिमा 'करेइ' करोति । इत्येष पौर्णमासी. चन्द्रनक्षत्रपरिज्ञानविषयकरणगाथाद्वयाक्षरार्थः ।
अथात्रास्यैव भावना क्रियते-अत्र कोऽपि प्रच्छकः प्रश्नं करोति-युगस्यादौ प्रथमा पूर्णिमा श्राविष्ठी श्रावणमासभाविनी भवति सा कस्मिन् चन्द्रनक्षत्रे समाप्तिमेति ? इति प्रश्ने तत्रावधार्यो राशि:-षट्षष्टिमुहूर्ताः, एकस्य च मुहूर्तस्य परिपूर्णाः पञ्चद्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य एकः सप्तषष्टितमो भागः -- ६६.८) इत्येतद्रूपोऽवधार्यराशिः स्थाप्यते, एष राशिः प्रच्छकेन
६६७
६२
प्रथमायाः पौर्णामास्याविषये प्रश्नः कृत स्तत एकेन गुण्यते, एकेन गुणितः स एव भवति “एकेन गुणितं तदेव भवति" इति वचनात् . ततस्तस्मात् अभिजितो नवमुहूर्ताः, एकस्य च मुहूर्तस्य चतुर्वि शति विष्टिभागाः, एकस्य द्वाषष्टिभागस्य षट्षष्टिसप्तषष्टिभागाः (९-२४.११) इत्येतत्परिमा
६२।६७