SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्तिप्रकाशिका टीका प्रा०१०-६ सू० १ पुर्णिमायां नक्षत्रयोगनिरूपणम् २६७ सम्बन्धिनो द्वाविंशतिर्मुहूर्त्तास्ते सर्वेऽपि उत्तरस्मिन् शोधनकेऽन्तः प्रविष्टाः प्रवर्तन्ते किन्तु न द्वाष्ट भागाः, ततो यद् यच्छोधनकं शोभयते तत्र तत्र पुनर्वसु सम्बन्धिनः षट्चत्वारिंशद् द्वाषाष्टिभागा उपरितनाः शोधनीया इति । इदं च पुनर्वसोरारभ्य उत्तराषाढा पर्यन्तं प्रथमं शोधनकमुक्तम्, 'इत्तो' इतः अत्रतोऽग्रे 'अभिइआई' अभिजिदादिम् अभिजितमादिं विधाय भदौ अभिजितं कृत्वा 'बिइयं सोहणगं' द्वितीयं शोधनकं 'बुच्छामि' वक्ष्यामि - कथयिष्यामि ॥६॥ तदेव गाथा चतुष्टयेन दर्शयति 'अभिहस्स' इत्यादि 'अभिहस्स' अभिजितः अभिजिन्नक्षत्रस् शोधनकं 'नवमुहुत्ता' नवमुहूर्त्ताः, एकस्य च मुहूर्त्तस्य 'चउवीसं विसट्टिभागा य' चतुर्विंशति द्वषष्टिभागाश्च, एकस्य च द्वाषष्टिभागस्य 'सत्तट्ठिछेयकया' सप्तषष्टिछेदकृताः 'समत्ता' समस्ताः परिपूर्णाः शेषरहितत्वात् 'छावडी भागा' षट्षष्टिर्भागाः भवन्ति । ७| तथा 'अउणद्वं' इत्यादि, 'अउ - ' एकोनषष्टम् - एकोनषष्ट्यधिकं शतं 'पोटूवया' प्रोष्ठपदेति पदानाम् उत्तरभाद्रपदानां शोधनकम्, किं तात्पर्यमित्याह - एकोनषष्ट्यधिकेन शतेन अभिजित आरभ्य उत्तरभाद्रपदापर्यंत षड्नक्षत्राणि शुद्धयन्ति । एवमग्रेऽपि योजना कर्त्तव्या । तदेवान्तिमनक्षत्रमाश्रित्य सूचयतिरोहिणिका - अश्विनीत आरभ्य रोहिणी पर्यन्तानि चत्वारि नक्षत्राणि 'तिसु चैव नवोत्तरं च ' त्रिषु'चैव नवोत्तरेषु च शतेषु नवोत्तराणि श्रीणि शतानि (३०९) नवोत्तरशतत्रयभागैः शुद्धयन्ति । तथा 'तिसु नवनवरसु' त्रिषु नवनवतेषु नवनवत्यधिकेषु त्रिषु शतेषु नवनवोत्तरशतत्रय (३९९ ) भागैः ‘पुणव्वस्’ पुनर्वसुः मृगशिरसआरभ्य पुनर्वसु पर्यन्तानि त्रीणि नक्षत्राणि शुद्धयन्ति । तथा नवमगाथापूर्वार्धकथितानि 'अउणपन्नं पंचेव सयाई' एकोनपञ्चाशदुत्तराणि पञ्चशतानि एकोनपञ्चाशदधिक पञ्चशतभागैः (५४९) 'फग्गुणीओ' फाल्गुन्यः उत्तरफाल्गुन्यः पुष्यत आरभ्य उत्तरफाल्गुनी पर्यन्तानि पञ्चनक्षत्राणि शुद्धयन्ति | ८ | तथा 'विसाहासु' विशाखासु हस्तत भारभ्य विशाखापर्यन्तेषु चतुर्षु नक्षत्रेषु 'अउणुत्तराई' एकोनसप्तत्यधिकानि 'छच्चेव सयाई' षट्शतानि (६६९) 'सोझाणि' शोध्यानि भवन्ति । 'मूले' मूलपर्यन्ते अनुराधात आरभ्य मूलनक्षत्रपर्यन्तेषु त्रिषु नक्षत्रेषु 'सत्तेव चोयाल' सप्तैव चतुश्चत्वारिंशत् चतुश्चत्वारिंशदधिकानि सप्तशतानि (७४४) शोध्यानि ॥|| ९ || ' उत्तरासादाणं' उत्तराषाढानाम् - उत्तराषाढा पर्यन्तानामिति पूर्वाषाढा उत्तराषाढा - इति द्वयोर्नक्षत्रयोः 'सोहणगं' शोधनकम् 'अट्ठसय अउणवीसा' एकोन विंशत्यधिकानि अष्टौ शतानि (८१९ ) सन्तीति । सर्वेष्वपि च शोधकेषु उपरि अभिजिन्नक्षत्रस्य सम्बन्धिनो मुहूर्तस्य 'चउवीसं खलु भागा' चतुर्विशति द्वषष्टिभागा तथा 'छावडीचुण्णियाओ य' षट्षष्टिश्च चूर्णिकाश्च एकस्य द्वाषष्टि भागस्य षट्षष्टिः सप्तषष्टिभागा चूर्णिकाभागाः । २४ ६६. शोधनीयाः ॥ १० ॥ ६२ ६७
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy