________________
२६४
.
.
चन्द्रप्राप्तिसूले इच्छितपूर्णिमागुणितः अवधार्यः सोऽत्र भवतिकर्तव्यः । तदेव च शोधनकम् अभिजिदादि तु कर्तव्यम् ॥१२॥ शुद्ध च शोधनके यत् शेषं तद् भवेन्नक्षत्रम् ।
तत्र च करोति उडुपतिः प्रतिपूर्णः पूर्णिमां विमलाम् ॥१३॥इति।। एताः गाथाः क्रमेण व्याख्यायन्ते- 'नाउमिह' इत्यादि 'इह' इह युगे 'जइ' यदि त्वम् 'आमावासं' आमावास्यां ज्ञातुमिच्छसि यत् कस्मिन् नक्षत्रे वर्तमानाऽमावास्या परिसमाप्ता भवतीति, तदा'। तत्तियरूवेहिं तावत्करूपैः, याममावास्यां ज्ञातुमिच्छसि तत्पर्यन्तं यावत्यो sमावास्या व्यतीता जातास्तावत्संख्यया 'अवहारं' अवधार्यम् अवधार्यते प्रथमतया स्थाप्यते इति अवधार्यः ध्रुवराशिः तं 'ठावित्ता' स्थापयित्वा पट्टिकादौ लिखित्वा व्यतीतामावास्यासंख्यया तम् अवधार्य राशिं 'संगुणए' संगुणयेत् ॥१॥ कोऽसौ अवधार्यराशिरिति तं प्रदर्शयति-'छावट्टी' इत्यादि 'छावही य मुहुत्ता' षट्षष्टिश्च मुहूर्ताः। एकस्य मुहूर्तस्य च 'पंचपडिपुण्णा बिसहि भागा' परिपूर्णाः शेषरहिताः पञ्च द्वाषष्टिभागा तथा 'बासहिभाग' इति द्वाषष्टिभागस्य 'सत्तसहिगो य एक्को हवइ भागो' सप्तषष्टितम एको भागो भवति अयं भावः-एकस्य द्वाषष्टिभागस्य सप्तषष्टिभागाः क्रियन्ते, तेषु एकः सप्तषष्टितमो भागः । (६६.- .)इति एतावत्प्रमाणः अवधार्यराशिर्भवतीति ॥२॥
एतावत्प्रमाणस्यावधार्यराशेः कथमुत्पत्तिः ? इति प्रदर्श्यते- अत्र यदि चतुर्विशत्यधिकशतसंख्यकैः पर्वभिः सूर्यनक्षत्रपर्यायाः पञ्च लभ्यन्ते तदा द्वाभ्यां पर्वभ्यां किं लम्यते ? इति त्रैराशिको गणित प्रकारस्ततो राशित्रयं स्थाप्यते यथा १२४। ५। २। अत्रान्त्येन द्विकरूपेण राशिना मध्यमः पञ्चकरूपो राशिगुण्यते जाताः दश (१०) अयं छेद्यराशिः अतः चतुर्विशत्यधिकं शतं च छेदकराशिः अतः छेदकराशिना छेद्यराशेर्भागहरणं कर्त्तव्यमिति चतुर्विशत्यधिकेन शतेन दशकरूपस्य राशेर्मागो हियते, तत्र छेद्यस्य दशकरूपस्य राशे न्यूनत्वेन भागो न हियते तेन छेपछेदकराश्योर्द्विकेनापवर्त्तना क्रियते, तेन छेद्यस्य दशकरूपस्य पञ्च लभ्यन्ते एष पञ्चकरूपः उपरितनराशिः छेदकस्य द्विकेनापवर्तनाकरणे द्वाषष्टिलभ्यते, एष द्वाषष्टिरूपः अधस्तनो राशिः, तेन लब्धाः पश्च द्वाषष्टि भागाः इति । एतेन नक्षत्राणि कर्तव्यानीति नक्षत्रकरणार्थम् त्रिंशदधिकाष्टादशशतैः (१८३०) सप्तषष्टिभागरूपैरुपरितनछेघराशिः पञ्चकरूपो गुण्यते जातानि पञ्चाशदधिकैकनवतिशतानि (५ x १८३० = ९१५०), अथ चाधस्तनश्छेदराशिषिष्टिप्रमाणः (६२) एषोऽपि सप्तषष्ट्यागुण्यते, जातानि चतुष्पञ्चशदधिकैकचस्वारिंशच्छतानि (६२ x ६७ = ४१५४ ) स्थापना चेत्थम् -१०) । अत्रत्य उपरितनो
४१५४ राशिर्मुहू नयनार्थ दिवसस्य त्रिंशन्मुहूर्तत्वेन भूयस्त्रिंशता गुण्यते जाते पञ्चशतोत्तरचतुः सप्तति