SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा० १०-६ सू०१ पूर्णिमायां नक्षत्रयोगनिरूपणम् २६५ m ४०५४ ) शेषाः ३३६, सहस्राधिके द्वे लक्षे (२७४५००) तथा च-९१५०४३०२७४५००। अस्य राशेः चतुष्पञ्चाशदधिकचत्वारिंशच्छतै (४०५४) र्भागो हियते-लब्धा षट्षष्टिर्मुहूर्ताः तथा च२७४५०० (६६ । र ५ शेषा अंशाः षट्त्रिंशदधिकानि त्रीणि शतानि (३३६) एष राशि षिष्टिभागानयनाथ द्वाषष्टया गुण्यते नातानि द्वात्रिंशदधिकाष्टशतोत्तराणि विंशतिसहस्राणि (२०८३२ ) अस्यापि अनन्तरोक्तेन चतुष्पञ्चाशदधिकैकचत्वारिंशच्छतरूपेण (४१५४) छेदराशिना भागहरणं क्रियते लब्धाः पञ्च द्वाषष्टिभागाः (५), शेषास्तिष्ठन्ति (६२)। ततस्तस्या द्वाषष्टया अपवर्त्तना क्रियते जात एककः ?, छेदराशेश्चतुर्विंशत्याधिकशत रूपस्य द्वाषष्ट्याऽपवर्तनायां लब्धा सप्तषष्टिः ततः आयात-षट् षष्टिर्मुहूर्ताः एकस्य च मुहूर्तस्य पञ्च द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य एकः सप्पषष्टिभागः । ६६-५-६२ - इति तदेवं जातमवधार्यराशिप्रमाणम् । अवधार्यराशेरुत्पत्तिरेषा भवतीति । अथ शेषविधि प्रदर्शयति - 'एयमवहाररासिं' इत्यादि, 'एयं' एतम् पूर्वोक्तम् 'अवहाररासिं' अवधार्यर।शिम् 'इच्छअमावाससंगुणं कुज्जा' इच्छितामावास्यासंगुणं यामवास्यां ज्ञातुमिच्छा वर्त्तते तत्प्रमितया संख्यया गुणितं कुर्यात् व्यतिक्रान्तामावास्यासंख्यया अवधार्यराशिं गुणयेदिति भावः । गुणयित्वा गुणनराशिमेकत्र स्थापयेदित्याशयः ‘एत्तो' इत ऊर्ध्वं च नक्षत्राणि शोधनीयानि भवन्तीति ‘नक्खत्ताण' नक्षत्राणां 'सोहणविहि' शोधनविधि वक्ष्यमाणं शोधनप्रकार 'निसामेह' । निशाम्यत शृणुध्वम् ॥३॥ प्रथमं पुनर्वसुशोधनकमाह- 'बावीस इत्यादि 'बावीसं' च मूहुत्ता' द्वाविंशतिश्च मुहूर्ताः एकस्य च मुहूर्तस्य 'छायालीसं बिसद्विभागा' षट् चत्वारिंशद्विषष्टिभागाः-(२२) 'एयं' एतत्-एतावत्प्रमाणं 'पुणव्वसुस्स' पुनर्वसोः पुनर्वसुनक्षत्रस्य 'सोहेयव्वं भवइ' शोधयतिव्यं भवति । 'पुच्छं' वक्ष्यामि शेषनक्षत्राणां शोधनकानि अग्रे कथयिष्यामि ॥४॥ कथमेतस्योत्पत्तिरिति चेदाह – इह यदि चतुर्विंशत्यधिकेन पर्वशतेन पञ्च सूर्यनक्षत्रपर्याया लभ्यन्ते तदा एकं पतिक्रम्यैकेन पर्वणा कतिपया लभ्यन्ते ? इति त्रिराशिकगणितप्रकारोऽयंजायते, तथा च स्थापना (१२४।५।११) अत्रान्त्येन एककराशिना पञ्चकरूपो मध्यराशिर्गुण्यते तदा जाताः पञ्चैव । तेषां चतुर्विशत्यधिकेन शतेन भागो हियते, पञ्चकरूपराशेन्यूनत्वेन भागो न हियते तदा स्थिताः पञ्चैव शेषरूपाः, तेन लब्धाः पञ्च-चतुर्विशत्यधिकशतभागाः (५।१२४)। ततो नक्षत्रानयनार्थमेष राशिः त्रिंशदधिकैरष्टादशभिः शतैः (१८३०) सप्तषष्टिभागरूपैर्गुणयितव्यइति गुणकारराशिः त्रिंशदधिकान्यष्टादशशतानि (१८३०) छेदराशिश्चतुर्विशत्यधिकमेकं शतम् ३४
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy