SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रज्ञप्तिसूत्रे व्याख्या- 'कइ मंडलाइ बच्चई' कति मण्डलानि व्रजति चतुरशीत्यधिकशतमण्डलेषु सूर्यो वर्षमध्ये कति मण्डलानि एकवारं, कति वा मंडलानि द्विःकृत्वो व्रजतीत्येतन्निरूपणाविषयकं प्रथमं प्राभतमस्ति । अस्मिन् अष्टावन्तरप्रभृतानि, चतुर्थान्तरप्राभृतादारभ्याष्टमान्तरप्राभृतपर्यन्तमेकोनत्रिंशत् प्रतिपत्तयश्च सन्ति । 'तिरिच्छा किं व गच्छइ' तिर्यक् किं वा गच्छति सूर्यस्तिर्यग दिशि कथं चलति, इति विषयकं द्वितीयं प्राभृतं वर्त्तते, अस्मिन् त्रीणि अन्तरप्राभृतानि चतुर्दश प्रतिपत्तयश्च सन्ति २ । 'ओभासइ केवइयं' अवभाषते कियत्कम् , चन्द्रः सूर्यश्च कियत्प्रमाणकं क्षेत्रं प्रकाशयतीतिविषयकं तृतीयं प्राभृतम्, अत्रान्यतैर्थिकप्ररूपणारूपा द्वादश प्रतिपत्तयः सन्ति ३। 'किं ते संठिती' का ते संस्थितिः, ते मते चन्द्रसूर्ययोः किदृशं संस्थानं वर्त्तते? इति विषकं चतुर्थ प्राभृतमस्ति । अत्रान्यतैर्थिकप्ररूपणारूपा षोडश षोडशचेति द्वात्रिंशत् प्रतिपत्तयः सन्ति । अत्र तापक्षेत्रस्यान्धकारक्षेत्रस्यापि च प्ररूपणा उर्ध्वमधस्तिर्यक् च कियत्तपतीत्यपि च प्ररूपणा वर्तते ४॥ गा० ५॥ 'कहिं पडिहया लेस्सा' कुत्र प्रतिहता लेश्या, सूर्यस्य लेश्या तेजः कुत्र प्रतिहता भवतीतिनिरूपकं पञ्चमं प्राभृतम् । अस्मिन् अन्यतैर्थिकप्ररूपणारूपा विंशतिः प्रतिपत्तयः सन्ति ५ । 'कहं ते ओयसंठिती' कथं ते ओजःसंस्थितिः, ते तव मते कथं केन प्रकारेण सर्वदा एकरूपाऽवस्थायिनी ओजसः प्रकाशस्य संस्थितिः संस्थानम् , अथवा अन्यथा वा संस्थितिर्नानाप्रकारेण वा भवतीतिप्ररूपकं षष्ठं प्राभृतम् । अस्मिन् अन्यतैर्थिकप्ररूणारूपाः पञ्चविंशतिः प्रतिपत्तयः सन्ति ६ । 'के सरियं वरयंति के सूर्य वरयन्ति, सूर्य दूरस्थिताः के पुद्गलाः सूर्य सूर्यतेजः वरयन्ति-सूर्यलेश्यां प्राप्तुमिच्छन्ति स्पृशन्तीत्यर्थः, इतिप्रतिपादकं सप्तमं प्राभृतम् । अत्रान्यतैथिंकप्ररूपणारूपाः विंशतिः प्रतिपत्तयः सन्ति ७ । 'कहं ते उदयसंठिती' ते तव मते कथं केन प्रकारेण सूर्यस्य-उदयस्य उपलक्षणात् अस्तस्य च संस्थितिः प्रकारः यत्र दिवसो रात्रि ; भवति तत्र कः प्रकारः ?, यदा दक्षिणोत्तरयोः प्रथमसमयो भवति तदा पूर्वपश्चिमयोः तस्माद् द्वितीये समये प्रथमः समयो भवति । अत्र जम्बूद्वीपादर्धपुष्करद्वीपपर्यन्तस्य वर्णनमस्ति, इतिनिरूपकमष्टमं प्राभृतम् । अस्मिन् अन्यतैर्थिकप्ररूणारूपास्तिस्रः प्रतिपत्तयः सन्ति ८ ॥ गा० ६ ॥ 'कइकट्ठा पोरिसीछाया' कतिकाष्ठा पौरुषीछाया कतिकाष्ठा=कियत्प्रकर्षप्रमाणा पौरुषीछाया पौरुषीकालस्य किंप्रमाणा छाया भवतीति प्ररूपकं नवमं प्राभृतम् , तत्रान्यतैर्थिकप्ररूपणारूपास्तिस्रः प्रतिपत्तयः सन्ति । अत्र सूर्यतेजसः स्वरूपं वर्णितम् । यस्मिन्
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy