SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ चन्द्र सिप्रकाशिका टीका प्रामृतान्तरप्राभृततङ्गतविषयनिरूपणम् ७ समये सूर्यः स्वतेजसा पुरुषस्य छायां निर्वर्त्तयति तद्वर्णनेऽन्यतैर्थिकप्ररूपणारूपाः पञ्चविंशतिः प्रतिपत्तयः सन्ति । पौरुषीच्छायानिर्वर्त्तने द्वे प्रतिपत्ती स्तः, सूर्य: कतिकाठां पौरुषीच्छायां निर्वर्त्तयतीतिविषये षण्णवतिः प्रतिपत्तयोऽपि सन्ति, एवं सर्वमेलने षड्विंशत्यधिकं शतमेकं ( २२६) प्रतिपत्तयः सन्ति । तथा पौरुष्यामर्धपौरुष्यां देहपौरुष्यां च कति दिनानि व्यतीयन्ते ? कति दिनानि अवशिष्यन्ते । तथा पुरुषच्छायायां कति दिनानिगच्छन्ति ? कति दिनानि अवशिष्यन्ते इति, तथा छाया पश्चविशतिविधा भवतीतिनिरूपकं नवमं प्राभृतम् ९ । 'जोएत्ति किं ते आहिए' योग इति किं ते आख्यातः, ते तव मते योग इति किम् ? किस्वरूपो योगः ? इति चन्द्रसूर्याभ्यां सह कतिनक्षत्राणां योगो भवतीतिप्रतिपादकं दशमं प्राभृतम्, अत्रान्यतैर्थिकप्ररूपणारूपाः पञ्च पञ्चेति दश प्रतिपत्तयः सन्ति १० । 'के ते संवच्छ राणाई' कस्ते संवत्सराणामादिः, ते तव मते संवत्सराणामादिरन्तश्च कः कतिसंख्यकाः संवत्सराः । इतिप्रतिपादकमेकादशं प्राभृतम् ११ । 'कइ संवच्छराइ य' कति संवत्सरा इति च संवत्सराः कति सन्ति !, पञ्च संवत्सरा सन्ति तेषां मासा दिनानि मुहूर्त्ताश्च कति ?, तथा एकस्मिन् युगे चन्द्रऋतोः सूर्यऋतोश्च कथनम् दशविधयोगानां कथनं च, तथा कस्मिन् नक्षत्रे छत्रपरच्छत्रयोर्योगो भवति ? इत्येतद्विषयकं द्वादशं प्राभृतम् १२ ॥ गा० ७ ॥ 'कईं चंदमसो बुढी' कथं चन्द्रमसो वृद्धिः, उपलक्षणात् हानिश्च कथम् ? कृष्णपक्षेचन्द्रस्य विमानं राहुविमानसंयोगेन रक्तो भवति तदा प्रतिदिनं क्रमश उद्योतस्य हानिर्जायते, शुक्लपक्षे राहुविमानेन विरक्तो भवति तदा क्रमश उद्योतस्य वृद्धिर्भवति, एवममावास्यायाश्चरमसमये चन्द्रो रक्तो भवति, पूर्णिमायाश्चरमसमये चन्द्रो विरक्तो भवति, शेषसमये रक्तो विरक्तश्च भवति, मुहूर्त्तादीनां मानं, चन्द्रो युगादौ कुतः प्रविशति, अथ नक्षत्रस्य मासार्धं चन्द्रस्यार्थ - मण्डलानि कति चलन्ति ? एवं चन्द्रस्य मासार्धे चन्द्रमण्डलानि कति चलन्ति ? नक्षत्रस्य - मासा - दारभ्य चन्द्रस्य मासार्धपर्यन्तं चन्द्रस्य मण्डलार्धानि कतिसंख्यकान्यधिकानि चलन्ति, चन्द्रस्य स्वस्य कानि मण्डलानि सन्ति । तथाऽन्यस्य ग्रहादेः कानि मण्डलानि सन्ति ? इत्यादिविषयप्रतिपादकं त्रयोदशं प्राभृतम् १३ 'कया ते जोसिणा बहू' कदा ते ज्योत्स्ना बही, ते तव मते ज्योत्स्ना चन्द्रिका बह्णी प्रभूता कदा वर्त्तते ? उपलक्षणात् अल्पा वा कदा ? इत्यादिविषयकं चतुर्दशं प्राभृतम् १४, 'के य सिग्घगई बुत्ते' कश्च शीघ्रगतिरुक्तः, चन्द्रादीनां पञ्चानां ज्योतिष्काणां मध्ये कः शीघ्रगतिः कश्च मन्दगतिरस्ति, चन्द्रः सूर्यो नक्षत्रं वा एकस्मिन् मण्डले कति भागान् चलति ?, पश्चानां युगानामेकैकस्मिन् मासे चन्द्रः सूर्यो नक्षत्रं च कति कति मण्डलानि चलन्ति ? तथा एकस्मिन् अहोरात्रे चन्द्रसूर्यनक्षत्राणि कति कति मण्डलानि चलन्ति ? सूर्यस्य नक्षत्रस्य
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy