________________
चन्द्राप्तिप्रकाशिका टीका प्रा०१०-३ सू० १ एवंभागनक्षत्रस्वरूपनिरूपणम् २४१ सन्ति नक्षत्राणि उभयभागानि द्वयर्धक्षेत्राणि पञ्चचत्वारिंशन्मुहूर्त्तानि प्रज्ञप्तानि । __ तावत् पतेषां खलु अष्टाविंशतः नक्षत्राणां कतराणि नक्षत्राणि यानि खलु पूर्वभागानि समक्षेत्राणि त्रिंशन्मुहूर्त्तानि प्रज्ञप्तानि १। कतराणि नक्षत्राणि यानि खलु पश्चाद्भागानि समक्षेत्राणि त्रिशन्मुहूर्त्तानि प्राप्तानि २ कतराणि नक्षत्राणि यानि खलु नक्तंभागानि अपाधक्षेत्राणि पञ्चदशमुहूर्त्तानि प्रज्ञप्तानि ३। कतराणि नक्षत्राणि यानि खलु उभयभागानि द्वयर्धक्षेत्राणि पञ्चचत्वारिंशन्मुहूर्तानि प्राप्तानि ४।।
तावत् एतेषां खलु अष्टाविंशते नक्षत्राणां तत्र यानि तानि नक्षत्राणि पूर्वभागानि समक्षेत्राणि त्रिंशन्मुहूर्त्तानि प्रज्ञप्तानि तानि खलु षट्, तद्यथा-पूर्वाभाद्रपदा १, कृत्तिका २, मघा ३, पूर्वाफाल्गुनी ४, मूलम् ५, पूर्वाषाढा ६, ॥१॥ तत्र यानि तानि नक्षत्रणि पश्चाद्भागानि समक्षोणि त्रिंशन मुहूर्तानि प्रज्ञप्तानि तानि खलु दश, तद्यथा-अभिजित् ।। श्रवणः २, धनिष्ठा ३, रेवती ४, अश्विनी ५, मृगशिरः ६, पुष्यम् ७, हस्तः ८, चित्रा ९, अनुराधा १० ।२। तत्र यानि तानि नक्षत्राणि नक्तंभागानि अपार्धक्षेत्राणि पञ्चदशमुहूर्तानि प्रज्ञप्तानि तानि खलु षट्, तद्यथा-शतभिषक् १, भरणी २, आर्द्रा ३, अश्लेषा ४, स्वातिः ५, ज्येष्ठा ६, ३॥ तत्र यानि तानि नक्षत्राणि उभयभागानि द्वयर्धक्षेत्राणि पञ्चचत्वारिंशन्मुहूर्त्तानि प्रक्षप्तानि तानि खलु षट्, तद्यथा-उत्तराभाद्रपदा १, रोहिणी २, पुनर्वसुः ३, उत्तराफाल्गुनी ४, विशाखा ५, उत्तराषाढा ६, ४॥ सू० १॥
___॥ दशमस्य प्राभृतस्य तृतीयं प्राभृतप्राभृतं समाप्तम् ॥१०॥
व्याख्या-ता कहं ते' इत्यादि, 'ता' तावत् 'कह' कथं केन प्रकारेण हे भगवन् 'ते त्वया' एवं भागानि एवम्-अनेन वक्ष्यमाणप्रकारेण भागा येषां तानि एवंभागानि वक्ष्यमाण प्रकारभागसंपन्नानि 'णक्खत्ता' नक्षत्राणि 'आहिया' आख्यातानि 'त्ति' इति-एतद्विषयं 'वएज्जा' वदेत् वदतु कथयतु ममेति गौतमस्य प्रश्नः । भगवानाह-'ता' इत्यादि, 'ता' तावत् ‘एएसि गं' एतेषां खलु 'अट्ठावीसाए णक्खत्ताणं' अष्टाविंशतेर्नक्षत्राणां मध्ये 'अत्थि' सन्ति कियन्ति 'णक्खत्ता' नक्षत्राणि 'पुव्वंभागा' पूर्वभागानि पूर्व दिवपस्य भागः पूर्वभागः प्रातः कालरूपः स चन्द्रयोगस्यादिमाश्रित्य विद्यते येषां तानि पूर्वभागानि, चन्द्रेण सह नक्षत्रयोगस्य यः प्रातःकाल आदिभागः स एव दिवसस्य पूर्वभागो ब्यपदिश्यते, एतादृशपूर्वभागानीत्यर्थः 'समखेत्ता' समक्षेत्राणि, समं सम्पूर्ण क्षेत्रम् - अहोरात्ररूपं चन्द्रयोगमाश्रित्यास्ति येषां तानि समक्षेत्राणि प्रातः कालादारभ्य सम्पूर्णाहोरात्रभोग्यानि अतएव 'तीसंमुहुत्ता' त्रिंशन्मुहूर्तानि त्रिंशन्मुहूर्त्तप्रमाणानि