SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ चन्द्र प्रज्ञप्तिसूत्रे 'पण्णत्ता' प्रज्ञप्तानि १ । तथा - 'अस्थि' सन्ति 'णक्खत्ता' नक्षत्राणि कानिचित् यानि 'पच्छं 'भागा' पश्चाद्भागानि चन्द्र योगस्यादिमाश्रित्य दिवसस्य सायंकालादारभ्य द्वितीयदिवससायंकालपर्यन्तभोग्यानि तानि पश्चाद्भागभोग्यानि कथ्यन्ते 'समखेत्ता' समक्षेत्राणि रात्रिन्दिवभो - ग्यानि 'तीसं मुहुत्ता' त्रिंशन्मुहूर्त्तानि चन्द्रयोगस्यादिमाश्रित्य दिवसस्य पश्चाद्भागात्सायं कालादारभ्य द्वितीयदिवससायंकालपर्यन्तं त्रिशन्मुहूर्त्तभोग्यानि 'पण्णत्ता' प्रज्ञप्तानि २ । तथा'अस्थि' सन्ति 'णक्खत्ता' नक्षत्राणि कानिचित् यानि 'नत्तंभागा' नक्तं भागानि, नक्तं- रात्रौ चन्द्रयोगस्यादिमाश्रित्य भागः अवकाशो येषां तानि तथा, 'अवड्ढखेत्ता' अपार्धक्षेत्राणि अपगतमर्धे यस्य तदपार्धम् - अर्द्ध मात्रं क्षेत्रं येषां चन्द्रयोगमाश्रित्य तानि - अपार्धक्षेत्राणि रात्रिमात्रक्षेत्राणि, अतएव 'पण्णरसमुहुत्ता' पश्ञ्चदशमुहूर्त्तानि चन्द्रयोगमाश्रित्य पञ्चदशमुहूर्त्ता विद्यन्ते येषां तानि पञ्चदशमुहूर्त्तानि पण्णत्ता' प्रज्ञप्तानि ३ | तथा 'अस्थि' सन्ति 'णक्खत्ता' नक्षत्राणि कानिचित् यानि 'उभयंभागा' उभयभागानि दिवसरात्रिभागानि चन्द्रयोगस्यादिमाश्रित्य भागो येषां तानि तथा एतानि कियत्प्रमितक्षेत्राणि सन्ति ? तत्राह - ' - 'दिवड्ढखेत्ता' द्वयर्षक्षेत्राणि द्वितीयम् अर्धं यत्र तद् द्वय सार्धमहोरात्रप्रमितं क्षेत्रं येषां तानि - प्रथमतया प्रातः कालादारभ्य संपूर्णमेकमहोरात्रं त्रिंशन्मुहूर्त्तात्मकं पुनश्चार्द्धाऽहोरात्रः, द्वितीयदिवस मात्ररूपः पश्चदशमुहूर्त्तात्मकः न तु रात्रिभागः एतद्रूपं द्वयर्धमिति सार्धमहोरात्ररूपं क्षेत्रं येषां तानि द्वयर्धक्षेत्राणि, अतएव 'पणयालीस मुहुत्ता' पञ्चचत्वारिंशन्मुहूर्त्तानि 'पण्णत्ता' प्रज्ञप्तानि ४ । एवं भगवता सामान्येन प्रोक्ते विशेषजिज्ञासया भगवान् गौतमः पृच्छति 'ता एएसिणं' इत्यादि, 'ता' तावत् 'एएसि णं अट्ठावीसाए नक्खत्ताणं' एतेषां खलु अष्टाविंशतेर्नक्षत्राणां मध्ये 'कयरे णक्खत्ता' कताराणि कानि नक्षत्राणि 'पुब्वंभागा' पूर्वभागानि प्रातः कालव्यापीनि 'समखेत्ता' समक्षेत्राणि समस्ताहोरात्रभोग्यानि, 'तीसंमुहुत्ता' त्रिंशन्मुहूर्त्तानि पण्णत्ता' प्रज्ञप्तानि १ । तथा - 'कयरे णक्खत्ता' कतराणि कानि नक्षत्राणि 'पच्छंभागा' पश्चाद्भागानि सायंकालव्यापीनि 'समखेत्ता' समक्षेत्राणि 'तीसंमुहुत्ता' त्रिंशन्मुहूर्त्तानि 'पण्णत्ता' प्रज्ञतानि १२ । तथा - ' कयरे णक्खत्ता' कतराणि कानि नक्षत्राणि 'णत्तं भागा' नक्तंभागानि - रात्रिभागानि - रात्रिमात्रभोग्यानि 'अवड्ढखेत्ता' अपार्धक्षेत्राणि—अर्धक्षेत्रभोग्यानि 'पण्णरसमुहुत्ता' पञ्चदशमुहूर्त्तानि रात्रिमात्र व्याप्तत्वात् पञ्च दशमुहूर्त्तमात्रयोगकारकाणि 'पण्णत्ता' प्रज्ञप्तानि १३ । २४२
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy