SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ M चन्द्राप्तिप्रकाशिका टीका प्रा०१०-२ सू० १ नक्षत्राणां चन्द्रेण सह योगनिरूपणम् २३९ एणं सद्धिं जोय जोएंति 'सूर्येण साध योग युञ्जन्ति 'तेणं छ' तानि खलु षटू सन्ति, 'तंजहा 'तद्यथा- 'उत्तरा भद्दवया 'उत्तराभाद्रपदा १, 'रोहिणी' रोहिणी २, 'पुणव्वर' पुनर्वसुः ३, 'उत्तराफग्गुणी' 'उत्तसफाल्गुनी ४, 'विसाहा 'विशाखा ५, उत्तरासाढा उत्तराषाढा ६, इति । तदेवं जायते-- एतानि नक्षत्राणि प्रत्येकत्वेन चन्द्रेण सह पञ्चचत्वारिंशत् (४५) मुहर्तान यावत् योगं कुर्वन्ति ततः पञ्चचत्वारिंशत् सप्तषष्टया गुण्यन्ते जातानि पञ्चदशोत्तराणि त्रीणि सहस्राणि (३०१५) एतेषां त्रिंशता भागो हियते लब्धमधेन सहितं शतमेकम् ( १००१) अत्र शतस्य पञ्चभिर्भागे हृते लब्धाः विंशतिरहोरात्राः २०, उपरि यदधै, तदपि त्रिंशता गुण्यते जाताः पञ्चदश १५, एषां पञ्चभिर्भागे हृते लब्धं त्रयम् ३, इति विंशतिमहोरात्रान् त्रींश्च मुहूर्त्तान् यावत् सूर्येण सह योगो भवतीति सिद्धम् । विशेषबोधार्थ पूर्वस्थं कोष्ठकं द्रष्टव्यमिति सू०॥२॥ इति-श्री-विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचकपञ्चदशभाषाकलितललितकलापालापक-प्रतिशुद्धगधगद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक- श्रीशाहुच्छत्रापति कोल्हापुररानप्रदत्त "जैनशास्त्राचार्य' पदभूषित-कोल्हापुरराजगुरु बालब्रह्मचारि-जैनशास्त्राचार्य-जैनधर्मदिवाकर श्रीधासीलालवति-विरचितायां चन्द्रप्रज्ञप्तिसूत्रस्य चन्द्रज्ञप्तिप्रकाशिकाख्यायां व्याख्यायाम् दशमप्राभृतेः द्वितीयं प्राभृतं समाप्तम् ॥१०-२॥
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy