SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ २३८ चन्द्रप्राप्ति विभज्यते तत्र त्रयस्त्रिंशतः पञ्चभिर्भागे हृते लब्धाः षट (६) अहोरात्राः । तदुपरि शेष साधं त्रयम् (३.५)तदपि त्रिंशता गुणयित्वा पञ्चभिर्विभज्यते लब्धा एकविशतिः (२१) इति, अतः षड् अहोरात्रान् ६ एकविशति च मुहूर्तान् यावत् षण्णां मध्ये प्रत्येकं नक्षत्राम् सूर्येण सह योगं करोतीति सिद्धम् । अत्रोक्तम् - "सयभिसया १ भरणी २ य अद्दा ३, अस्सेस ४ साइ ५ जिट्ठा ६ य । वच्चंति मुहुत्ते इक्कवीसं छच्चेवऽहोरत्ते" ॥१॥ छाया-शतभिषा १, भरणी २ च, आH ३, अश्लेषा ४, स्वातिः ५ ज्येष्ठा ६ च । ___ ब्रजन्ति मुहूर्तान् एकविशति षट् चैवाहोरात्रान् इति ।२। अथ तृतिय प्रश्नं स्पष्टयति- 'तत्थ' इत्यादि , 'तत्थ' 'तत्र अष्टाविंशतिनक्षत्राणां मध्ये 'जे ते णक्खत्ता' यानि तानि नक्षत्राणि 'तेरस अहोरत्ते' त्रयोदश अहोरात्रान् 'दुवालस य मुहूत्ते' द्वादश च मुहूर्तान् 'सूरिएण सद्धिं जोयं जोएंति' सूर्येण साधू योगं युञ्जन्ति 'ते णं' तानि खलु ‘पण्णरस' पञ्चदश सन्ति, 'तं जहा' तद्यथा-'सवणो' श्रवणः 'धणिहा' धनिष्ठा ।२, 'पुन्वाभदवया' पूर्वाभाद्रपदा ३, 'रेवई' 'रेवतिः ४ 'अस्सिणी' अश्विनी ५, 'कत्तिया' 'कृत्तिका ६, 'मग्गसिरं 'मार्गशिरः ७, 'पूसो 'पुण्यम् ८, 'मघा' मघा ९, 'पुवाफग्गुणी' पूर्वाफाल्गुनी १०, 'हत्थो' हस्तः ११, 'चित्ता' चित्रा १२, 'अणुराहा' अनु. राधा १३, 'मूलो' मूलम् १४, 'पुव्वाआसाढा' पूर्वाषाढा १५, इति, तथाहि-एतानि पश्चदश नक्षत्राणि प्रत्येकत्वेन चन्द्रेण सह त्रिंशन्मुहूर्तान् योगं कुर्वन्ति ततस्त्रिंशत् (३०) सप्तषष्ट्या गुण्यन्ते जाते दशोत्तरे द्विसहस्र (२०१०) अस्य राशेस्त्रिंशता भागो हियते लब्धाः सप्तषष्टिः (६७) ततः सप्तषष्टयाः पञ्चभिर्भागो हियते लब्धास्त्रयोदश (१३) अहोगत्राः, शेष द्वयं (२) तदपि त्रिंशता गुण्यते जाता षष्टिः (६०) पञ्चभिर्भागे हृते लब्धाः द्वादश (१२) अतःत्रयोदशाहोरात्रान् द्वादशमुहूर्ताश्च यावत् सूर्येण सह योगो भवतीति सिद्धम् । उक्तंचात्र"अवसेसा नक्खत्ता पण्णरस वि सूरसहगया जंति बारस चेव मुहुत्ते' तेरस य स मे अहोरत्ते छाया-अवशेषाणि नक्षत्राणि पञ्चदशापि सूर सहगता यान्ति द्वादश चैव मुहूर्तान् । त्रयोदश च समान् अहोरात्रान् इति अत्र 'अवसेसा' इति पदेन ज्ञायते यदियं गाथा तत्रत्य प्रकरणेऽन्तिमा भवतुमर्हतीति विवेकः ।। ___ अथ चतुर्थ प्रश्नं स्पष्टयति- 'तत्थ 'इत्यादि, 'तत्थ' तत्र अष्टाविंशति नक्षत्राणां मध्ये 'जे ते एक्णत्ता' यानि तानि नक्षत्राणि 'जे णं' यानि खलु 'विस अहोरत्ते' विंशतिमहोरात्रान् 'तिण्णि य मुहूत्ते' त्रीश्च मुहूर्तान् 'मूरि
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy