SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा० १०-२ सू०१ नक्षत्राणां चन्द्रेण सह योगनिरूपणम् २३७ अयमाशयः– यदभिजिन्नक्षत्रं चतुरः अहोरात्रान् षड् मुहूर्ताश्च यावत् सूर्येण सह योगं करोति तदेवम्-सामान्यतया एकस्मिन् युगे एक नक्षत्रं सप्तषष्टिवारान् चन्द्रेण सह योगं करोति, सूयण च सह पञ्चवारान् योगं करोतीति सिद्धान्तः । यदभिजिन्नक्षत्रं चन्द्रेण सह नवमुहूर्तान् सप्तविंशतिं च सप्तषष्टिभागान् यावत् योगं करोति, एनं राशिम् अभिजिन्नक्षत्रमेकस्मिन् युगे चन्द्रेण सह सप्तषष्टिवारान् यावद् योगं करोति, अतएव सप्तषष्ट्या गुणयेत्(९७४६७) ततो जायते त्रिंशदधिकानि षट् शतानि (६३०) तच्चैवम्- नवमुहूर्तानां सप्तषष्ट्या गुणने जातं त्र्यधिकं षट्शतम् (६०३) अस्मिन् राशौ सप्तविंशतिः सप्तषष्टिभागाः प्रक्षिप्यन्ते जातो यथोक्तो राशिः (६३०)। एकस्याहोरात्रस्य त्रिंशन्मुहूर्ताः भवन्त्यतः पूर्वोक्तो राशिः (६३०) त्रिंशता (३०) विभज्यते लब्धा एकविंशतिः (२१) सप्तषष्टि भागाः, एतदेव नक्षत्रमेकस्मिन् युगे पञ्च वारान् योगं करोति तत एकविंशतिः सप्तषष्टि भागा पञ्चभिर्विभज्यन्ते तत आगच्छन्ति चत्वारः ४, एकं च शेषं तदपि त्रिंशता गुणितं जातास्त्रिंशत् एतेऽपि पञ्चभिर्विभज्यन्ते लब्धा षट् ६ ततोऽभिजिन्नक्षत्रं चतुरः अहोरात्रान् षट् च मुहूत्तन् यावत् सूर्येण सह योगं करोतीति सिद्धम् १। उक्तञ्च "अभिई छच्च मुहुत्ते चत्तारि य केवले अहोरत्ते । सरेण समं वच्चइ, इत्तो सेसाण वुच्छामि" ॥१॥ छाया-अभिजित् षट् च मुहूर्तान् चतुरः केवलान् अहोरात्रान् । सूर्येण समं व्रजति, इतः शेषाणां वक्ष्यामि ॥१॥ इति ।१। अथ द्वितीयं प्रश्नं स्पष्टयति'तत्थ' इत्यादि । 'तत्थ' तत्र 'जे ते णक्खत्ता' यानि तानि नक्षत्राणि 'जेणं' यानि खलु 'छच्च अहोरत्ते' षट् च अहोरात्रान् 'एक्कवीसं च मुहत्ते' एकविंशति च मुहूर्तान् 'मुरिएण सद्धिं जोय जोएति' सूर्येण साधू योगं युञ्जन्ति 'तेणं छ' तानि खलु षट्, 'तं जहा' तयथा—'सयभिसया' शतभिषक् १, 'भरणी' भरणी २, 'अदा' आर्दा ३, 'अस्सेसा' अश्लेषा ४, 'साई' स्वातिः ५, 'जेहा' ज्येष्ठाः ६ इति । तत्कथमिति प्रदर्श्यतेएतानि षड् नक्षत्राणि प्रत्येकं चन्द्रेण सह पञ्चदशमुहूर्तान् योगं कुर्वन्ति, चन्द्रेण सह युगे सप्तषष्टिवारयोगकरणत्वेन पञ्चदश सप्तषष्ट्या गुण्यन्ते जातं पञ्चोत्तरमेकं सहस्रम् (१००५), ततः अहोरात्रस्य त्रिंशन्मुहूर्तत्वेनास्य त्रिंशता भागो हियते लब्धा अर्धेन सह त्रयस्त्रिंशत् (३३॥) सप्तषष्टिभागाः, ततो युगे सूर्येण सह पञ्चवारयोगकरणत्वेन एषा संख्या (३३॥) पञ्चभि
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy