SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ २३६ चन्द्रप्राप्तिसूत्रे चतुरोऽहोरात्रान् 'छच्च मुहुत्ते'षट् च मुहूर्तान् यावत् 'मरिएण सद्धिं' सूर्येण साधै 'जोयं जोएइ' योगं युनक्ति ‘से ण' तत् खलु 'अभीई' अभिजिन्नक्षत्रमवगन्तव्यम् । कथमित्याह-इह च यन्नक्षत्रमेकस्याहोरात्रस्य सम्बन्धिनो यावतः सप्तषष्टिभागान् चन्द्रेण सह योगं करोति तन्नक्षत्रं सूर्येण सह अहोरात्रस्य तावतः पञ्चभागान् यावत् योगं करोति, उक्तश्च-'जं रिक्खं जाव. इए वच्चइ चंदेण भागसत्तट्ठी । तं पणभागे राइंदियस्स-सूरेण तावइए ।१। छाया-यत् ऋक्षं यावत्कान् व्रजति चन्द्रेण भागान् सप्तसष्टिम् । तत् पञ्च भागान् रात्रिन्दिवस्य तावत्कान् ॥१॥ इति । अत्रेदं बोध्यम्-यन्नक्षत्रमभिजिन्नामकं चन्द्रेण सह नवमुहूर्तान् सप्तविंशतिं च सप्तषष्टिभागान् यावत् योगं करोति तदत्र सूर्येण सह चतुरोऽहोरात्रान् षड् मुहूर्तान् यावत् योगं करोति १ । यानि च शतभिषगादीनि षड् नक्षत्राणि प्रत्येकं चन्द्रेण सह पञ्चदशमुहूर्तान् यावद् योगं कुर्वन्ति तान्यत्र प्रत्येकं सूर्येण सह षड् अहोरात्रान् एकविंशतिं च मुहूर्तान् यावत् योगं कुर्वन्ति २ । यानि च श्रवणादीनि पञ्चदश नक्षत्राणि प्रत्येकं त्रिंशद् मुहूर्तान् यावत् चन्द्रेण सह योगं कुर्वन्ति तान्यत्र सूर्येण सार्ध त्रयोदशाहोरात्रान् द्वादश च मुहूर्तान् यावत् योग कुर्वन्ति ३ । यानि उत्तराभाद्रपदादीनि षड् नक्षत्राणि प्रत्येकं पञ्चचत्वारिंशन्मुहूर्तान् यावत् चन्द्रेण सह योगं कुर्वन्ति तान्यत्र सूर्येण साध विंशतिमहोरात्रान् श्रीन् मुहूर्ताश्च यावत् योगं कुर्वन्ति ४ । कोष्ठकं यथाचन्द्रसूर्याभ्यां सह नक्षत्राणां योगकोष्ठकम् चन्द्रेण सह मुहूर्तानां नक्षत्रनामानि सूर्येण सहाहोरात्राणां योगः मुहूर्तानां च योगः अभिजित् १ | मु० ९-२७ अहो० ४ मु. ६ सप्तषष्टिः भागाः ६७ शतभिषक १, भरणी २, मार्दा ३, अश्लेषा ४, | स्वातिः ५, ज्येष्ठा ६ । प्रत्येकम् ६-२१ श्रवणः १, धनिष्ठा २, पू० भा० ३, रेवती ४, अश्विनी ५, कृतिका ६, मृगशिरः ७, पुण्यं ८, १३-१२ मधा ९, पू० फा० १०, हस्तः ११, चित्रा१२, अनुराधा १३, मूलम् १४, पू० फा०. १५, प्र० उ० भा० १, रोहिणी २, पुनर्वसुः ३, उ० २०-३ फा० ४, विशाखा ५, उ० षा० ६, प्र०
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy