SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ चन्द्रशशिप्रकाशिका टीका प्रा० १०-२ सू०१ नक्षत्राणां चन्द्रेण सह योगनिरूपणम् २३१ सत्तावीसं च सत्तट्टिभाए मुहुत्तस्स' सप्तविंशति सप्तषष्टिभागयुक्तान् नवमुहूर्त्तान् यावत् 'चंदेण सर्द्धि जोयं जोएइ' चन्द्रेण सार्धं योगं युनक्ति १। 'कयरे णक्खत्ता' कतराणि नक्षत्राणि किं नामधेयानि नक्षत्राणि 'जे णं' यानि खलु 'पण्णरसमुहुत्ते' पञ्चदशमुहूर्त्तान् यावत् 'चंदे सद्धिं जोयं जोएंति' चन्द्रेण सार्धं योगं युञ्जन्ति २ । 'कयरे णक्खत्ता' कतराणि नक्षत्राणि 'जेणं' यानि खलु 'तीसं मुहुत्त' त्रिंशन्मुहूर्त्तान् यावत् 'चंदेण सद्धिं जोयं जोएंति' चन्द्रेण सार्धं योगं युञ्जन्ति ३ | 'कयरे' कतराणि कानि 'णक्खत्ता' नक्षत्राणि 'जे णं' यानि खलु 'पणयाळीसे मुहुत्ते पञ्चचत्वारिंशन्मुहूर्त्तान् यावत् 'चंदेण सद्धिं जोय जोएंति' चन्द्रेण सार्धं योगं युञ्जन्ति ४ । एवं गौतमेन पृष्टे सति भगवान् एकैकशः कृत्वा चतुरोऽपि प्रश्नान् स्पष्टीकरोति - 'ता एसि णं' इत्यादि । 'ता' तावत् 'एएसि णं' एतेषां खलु 'अट्ठावीसाए णक्खत्ताणं' अष्टाविंशतेर्नक्षत्राणां ‘तत्थ ं तत्र मध्ये ‘जं तं णक्खत्तं' यत्तत् नक्षत्रं 'जे णं' यत् खलु 'णवमुहुत्ते सत्तावीसं च सतट्टिभाए मुहुत्तस्स' सप्तविंशतिं सप्तषष्टिभागयुक्तान् नवमुहूर्त्तान् यावत् 'चंदेणं सद्धिं जोयं जोए ' चन्द्रेण सा योगं युनक्ति 'से णं' तत् खलु 'एगे अभीई' एकम् अभिजित् नक्षत्रमस्ति । एतत् कथम् ? इति प्रदर्श्यते इदमभिजिन्नक्षत्रं सप्तषष्टिस्खण्डीकृतस्याहोरात्रस्यैक विंशतिभागान् यावत् चन्द्रेण सह योग प्राप्नोति, मुहूर्त्तगतभागकरणार्थमेते च एकविंशतिरपि भागा एकस्याहोरात्रस्य त्रिंशन्मुहूर्त्त प्रमाणत्वात् त्रिंशता गुन्यन्ते ( २१ x ३० ) जातानि त्रिंशदधिकानि षट्शतानि (६३०) कालमाश्रित्य एतावान् सीमा विस्तारोऽभिजिन्नक्षत्रस्य भवति, उक्तं चाऽन्यत्रापि “छच्चेव सया तीसा भागाणं अभिई सीमविवक्खंभो । दिट्ठो सम्बडहरगो सव्वेहिं अनंतनाणीहिं ॥१॥ छाया - षडेव शतानि त्रिंशत् भागानाम् अभिजित्सीमा विष्कम्भः दृष्टः सर्वलघुकः सर्वैः अनन्तज्ञानिभिः || १ || इति तानि त्रिंशदधिकषट्शतानि (६३०) सप्तषष्ट्या विभज्यन्ते ततो लब्धा नवमुहूर्त्ताः एकस्य मुहूर्त्तस्य च सप्तविंशतिः सप्तषष्ठिभागाः (९६) अतएवोक्तम् “अभिहस्स चंदजोगो सत्तट्ठीर्खडिओ अहोरत्तो । भागा य सत्तवीस पुण अहिया नव मुहुत्ता" ॥१॥ छाया - अभिजितः चन्द्रयोगः सप्तषष्टिस्खण्डितम् अहोरात्रम् । भागाश्च सप्तविंशतिः, ते पुनः अधिका नवमुहूर्त्ताः । १ । इति । इत्यादि । ' तत्थ ' अथ भगवान् पञ्चदशमुहूर्त विषयकं द्वितीयं प्रश्नं तत्र अष्टाविंशतिनक्षत्राणां मध्ये 'जे ते णक्खत्ता' यानि 'पण्णरसमुहुत्ते" पञ्चदशमुहूर्त्तान् यावत् योगं युञ्जन्ति 'णं' तानि खलु 'छ' स्पष्टयति- ' तत्थ' तानि नक्षत्राणि 'जे णं' यानि खलु 'चंदेण सद्धिं जोयं जोएंति' चंद्रेण सार्धं षट् सन्ति 'तं जहा ' तथथा 'सयभिसया'
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy