SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ २३२ चन्द्रप्राप्तिसूत्रे 'शतभिषक् १ 'भरणी' भरणी २, 'अदा' आर्दा ३, 'अस्सेसा' अश्लेषा ४, 'साई' स्वातिः ५, 'जेहा' जेष्ठा ।६॥ एतेषां षण्णामपि नक्षत्राणां प्रत्येकं सप्तषष्टिखण्डीकृतस्याहोरात्रस्य सम्बन्धिनः साभन् त्रयस्त्रिंशद्भागान् (३३॥) यावत् चन्द्रेण सह योगो भवति तत एते सार्धत्रयस्त्रिंशद्भागाः मुहूर्तगतसप्तषष्टिभागकरणार्थ त्रिंशता गुण्यन्ते तत्र प्रथम त्रयस्त्रिंशत् त्रिंशता गुण्यन्ते जातानि नवधिकनवशतानि (९९०) ततो यदुपरि अध तदपि त्रिंशता गुण्यते लब्धाः पञ्चदशमुहूर्तस्य सप्तषष्टिभागाः, तेषां पूर्वराशौ प्रक्षेपणे जातं पञ्चोत्तरं सहस्रमेकम् (१००५)। एवं चैतेषां षण्णां नक्षत्राणां प्रत्येकं कालमाश्रित्य सीमाविस्तारः पञ्चोत्तरसहस्रमुहूर्तगतसप्तपष्टिभागप्रमितः, अत्राह “सयभिसया भरणीए, अहा अस्सेसा साइ जिहाए । पंचोत्तरं सहस्सं भागाणं सीमाविक्खभो ॥१॥ छाया-शतभिषग्भरण्योः आHऽश्लेषा-स्वातिज्येष्ठानाम् । पञ्चोत्तरं सहस्रं भागानां सीमाविष्कम्भः ॥१॥इति । अस्य पञ्चोत्तरसहस्रस्य सप्तषष्टया भागे हृते लब्धाः पञ्चदशमुहूर्ताः । अतएवोक्तं च.. "सयभिसया भरणी य अद्दा अस्सेससाइजिट्ठा य । एए छन्नक्खत्ता, पण्णरसमुहत्तसंजोगा " ॥१॥ छाया - शतभिषक् भरणी च आर्द्रा अश्लेषा स्वातिः ज्येष्टा च एतानि षड्नक्षत्राणि, पञ्चदशमुहूर्तसंयोगानि ॥२॥इति। अथ त्रिंशन्मुहूर्त्तविषयक प्रश्नं स्पष्टयति तत्थ' इत्यादि, 'तत्थ' तत्राष्टाविंशतिनक्षत्राणां मध्ये 'जे ते णक्खत्ता 'यानि तानि नक्षत्राणि 'जे ण' यानि खलु 'तीस मुहुत्ते' त्रिंशन्मुहूर्त्तान् यावत् 'चंदेण सद्धिं जोयं जोएंति' चन्द्रेण साधू योगं युञ्जन्ति, 'ते णं पण्णरस' तानि खलु पञ्चदश, 'तं जहा 'तद्यथा-'सवणो' श्रवणः १. 'धणिहा' धनिष्ठा २. 'पुव्वाभदवया पुर्वाभाद्रपदा ३, 'रेवई' रेवती ४, 'अस्सिणी' अश्विनी ५, 'कत्तिया' कृत्तिका ६, 'मग्गसिरं 'मृगशिरः ७, 'पुस्सं पुण्यम् ८, 'मघा' 'मघा' ९, पुवाफग्गुणी' पूर्वाफाल्गुनी १०, हत्थो' हस्तः ११, 'चित्ता' ,चित्रा १२. 'अनुराहा' अनुराधा १३, 'मूलो' मूलम् १४, 'पुव्वआसाढा' पूर्वाषाढा १५, । तथाहि एतेषा पञ्चदशानां नक्षत्राणां कालमाश्रित्य प्रत्येकं सीमा विष्कम्भो मुहर्तगतसप्तषष्टिभागानां दशोत्तरं सहस्रद्वयम् (२०१०] भवति । तत्कथमित्याह एषु प्रत्येक नक्षत्रमेकाहोरात्रस्य सप्तषष्टिसप्तषष्टिभागान् (६५) यावत् चन्द्रेण सह योगं करोति ततोऽहोरात्रस्य त्रिंशन्मुहूर्त्तप्रमाणत्वात्सप्तषष्टिः त्रिंशता गुण्यते तदा जायते यथोक्तो राशिः (२०१०)। तस्य सप्तषष्टया भागो हियते लब्धा स्त्रिंशत् मुहूर्ताः ३०॥इति अथ चतुर्थ पञ्चचत्वारिंशन्मुहूर्तविषयकं प्रश्नं स्पष्टयति-तत्थ' इत्यादि । 'तत्य' तत्र भष्टाविंशतिनक्षत्राणां मध्ये 'जे ते णक्खत्ता' यानि तानि नक्षत्राणि 'जे णं' यानि
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy