SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्राप्तिसूत्रे यानि खलु पञ्चचत्वारिंशद मुहूर्तान् चन्द्रेण साधं योगं युञ्जन्ति ४॥ तावत् एतेषां खलु अष्टाविंशतेः नक्षत्राणां कतरत् नक्षत्रं यत् खलु नव मुहूर्तान् सप्तविंशति च सप्तषष्टिभागान् मुहूर्तस्य चन्द्रेण सार्ध योगं युनक्ति १, कतराणि नक्षत्राणि यानि खलु पञ्चदश मुहूर्तान् चन्द्रेण सार्धं योग युञ्जन्ति २। कतराणि नक्षत्राणि यानि खलु त्रिंशद् मुहूर्तान् चन्द्रण साध योगं युञ्जन्ति ३। कतराणि नक्षत्राणि यानि खलु पञ्चचत्वारिंशद् मुहू नि चन्द्रेण साधू योग युञ्जन्ति ।४. तावत् एतेषां खलु अष्टाविंशते नक्षत्राणां तत्र यत्तन्नक्षत्रं यत् खलु नव मुहूर्तान् सप्तविंशतिं च सप्तर्षाष्टभागान मुहूर्तस्य चन्द्रेण सार्धं योग युनक्ति तत् खलु एकम् अभिजित् । तत्र यानि तानि नक्षत्राणि यानि खलु पञ्चदशमुहूर्तान् चन्द्रेण साधं योगं युञ्जन्ति तानि खलु षट् तद्यथा-शतभिषक् १, भरणी, आर्द्रा ३, अश्लेषा ४, स्वातिः ५, ज्येष्ठा ६।२। तत्र यानि तानि नक्षत्राणि यानि खलु त्रिंशत् मुहूतीन चन्द्रेण साध योगं युजन्ति तानि खलु पञ्चदश, तद्यथा-श्रवणः १, धनिष्टा २, पूर्वाभाद्रपदा ३, रेवती ४, अश्विनी ५, कृत्तिका ६, मृगशिरः ७, पुष्यः ८, मघा ९, पूर्वाफाल्गुनी १०, हस्तः ११, चित्रा १२, अनुरावा १३ मूलम् १४, पूर्वाषाढा १५,३ तत्र यानि तानि क्षत्राणि यानि खलु पञ्चचत्वारिंशत् मुहर्तान् चन्द्रेण साधं योगं युञ्जन्ति तानि खलु षट्, तद्यथा-उत्तराभाद्रपदा १, रोहि णी २, पुनर्वसु ३, उत्तराफाल्गुनी ४ विशाखा ५, उत्तराषाढा ६।४। ॥सू ० १। व्याख्या- 'ता कहते' इति, 'ता' तावत् 'कह' कथं हे भगवन् ! केन प्रकारेण 'ते' त्वया प्रतिनक्षत्रं 'मुहुत्तग्गे' मुहूर्ताग्रं चन्द्रेण सह नक्षत्राणां योगसम्बन्धि मुहूर्तपरिमाणम् 'आहियं' आख्यातम् ? 'तिवएज्जा' इति वदेत् कथयतु । एवं गौतमेनोक्ते भगवानाह 'ता' तावत् 'एएसि णं' एतेषां खलु 'अट्ठावीसाए नक्खत्ताणं' अष्टाविंशतेः नक्षत्राणां मध्ये 'अत्थि' अस्ति 'नक्खत्तं' नक्षत्रं 'जणं' यत्खल नक्षत्रं 'नवमुहुत्ते' नवमुहूर्तान् ‘सत्तावीसं च सत्तहिभागे' सप्तविंशतिं च सप्तषष्टिभागान् ‘मुहुत्तस्स' एकस्य मुहूर्तस्य, सप्तषष्टिभागयुक्तान् नवमुहूर्तान् यावत् 'चंदेण सद्धि' चन्द्रेण साधं 'जोयं जोएइ' योगं युनक्ति १। 'अत्थि' सन्ति 'नक्खत्ता' नक्षत्राणि 'जेणं यानि खलु नक्षत्राणि 'पण्णरसमुहुत्ते' पञ्चदशमुहूर्तान् यावत् पञ्चदशमुहूर्तपर्यन्तमित्यर्थः 'चंदेण सद्धि' चन्द्रेण साधं 'जोयं जोएंति' योगं युञ्जन्ति कुर्वन्ति २ । 'अत्थि' सन्ति ‘णक्खत्ता' नक्षत्राणि 'जे णं' यानि खलु नक्षत्राणि तीस मुहुत्ते' त्रिशन्मुहूर्तान् त्रिंशन्मु. हूर्तपर्यन्तं 'चंदेण सद्धिं जोयं जोएंति' चन्द्रेण साधं योगं युञ्जन्ति ।३। 'अत्थि' सन्ति 'णक्खत्ता'नक्षत्राणि 'जे णं' यानि खलु ‘पणयालीसे मुहुत्त'पञ्चचत्वारिंशन्मुहूर्तान् यावत् 'चंदेण सद्धिं जोयं जोएंति' चन्द्रेण साध योगं युजन्ति ४। एवं भगवता सामान्येन कथितान् चन्द्र नक्षत्रयोगरूपान् चतुरो विषयान् श्रुत्वा भगवान् गौतमो विशेषनिर्णयार्थं प्रत्येकमेकैकशः पृच्छति 'ता एएसि णं' इत्यादि, 'ता' तावत् 'एएसिणं' एतेषां 'अट्ठावीसाए णक्खत्ताणं'अष्टाविंशते नक्षत्रणां मध्ये ‘कयरं' कतरत् किं नामकं ‘णक्खत्तं' नक्षत्रं 'जे णं' यत् खलु नक्षत्रं 'नवमुहुत्ते
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy