________________
चन्द्रप्रशतिसूत्रे
दानतत्परान् 'उवज्झाए' उपाध्यायान् स्वयं द्वादशाङ्गाध्ययनं कुर्वन्तः परान् तदध्ययनमानसान् कारयन्तस्तान् 'सव्वसाहू य' सर्वसाधूँश्च ज्ञानक्रियातो मोक्षसाधनप्रवणान् अर्द्ध तृतीयद्वीप स्थितान् मुनीन् 'नमिऊण' नत्वा - नमस्कृत्य, किम् ? इत्याह
४
मूलम् —— फुडवियडपागडत्थं, वोच्छं पुव्वसुयसारनीसंदं । सुहुमगणिणोवइहूं, जोइसगणरायपण्णर्त्ति ॥३॥
>
छाया-स्फुट विकट प्रकटार्थां वक्ष्ये पूर्वश्रुतसारनिस्यन्दं । सूक्ष्मगणिनोपदिष्टां ज्योतिर्गणराजप्रज्ञप्तिम् ॥३॥
व्याख्या—'फुडवियडपागडत्थं' स्फुटविकटप्रकटार्थाम्–स्फुटः स्पष्टो यथावस्थितो विमलबोधविषयत्वात्, विकटः = गम्भीरार्थः कुशाग्रबुद्धिगम्यत्वात्, प्रकटः = साक्षादक्षरेष्वेव परिस्फुरणशीलः, एतादृशोऽर्थो यस्यां सा तथा ताम् 'पुव्वसुयसारनीसंद' पूर्वश्रुतसारनिस्यन्दम्पूर्वगतं श्रुतं पूर्वश्रुतं तस्य सारः सारभूतं निस्यन्दं सारस्यापि सारभूताम्, अनेन - इयं चन्द्रप्रज्ञप्तिः पूर्वेभ्य उद्घृतेति ध्वन्यते । ननु इयं च न पूर्वाणि स्वयमधीत्य तत उद्धृता किन्तु गुरूपदेशानुसारतः, इत्यत्राह–'सुडुम' इत्यादि 'सुहुमगणिणोवई' सूक्ष्मगणिनोपदिष्टाम्, सूक्ष्म इति सूक्ष्मबुद्धियुको यो गणी - आचार्य:, तेनोपदिष्टाम्, गुरुणा पूर्वाणि यथाव्याख्यातानि तान्यधीत्य तेभ्य उद्धृतामिति भावः, 'जोइसगणरायपण्णत्ति' ज्योतिर्गणराजप्रज्ञप्तिम्, तत्र ज्योतींषि - ग्रहनक्षत्रतारारूपाणि तेषां गणः = समूहस्तस्य राजा = चन्द्रः, तस्य प्रज्ञप्तिम् - प्रज्ञाप्यते प्ररूप्यतेऽनयेति प्रज्ञप्तिः तत्स्वरूपप्रतिपादिका वचनपद्धतिः, ताम् 'वोच्छं' वक्ष्ये= प्रतिपादयिष्यामि प्ररूपयिष्यामीत्यर्थः ॥ ३॥
पूर्वेषु चन्द्रादिवक्तव्यता गौतमप्रश्नभगवन्निर्वचन रूपैव वर्तते तत इयं चन्द्रप्रज्ञप्तिरपि तथैव प्ररूपणीयेति प्रथमं गौतमप्रश्नस्योपक्षेपं निरूपयति- 'नामेण' इत्यादि ।
मूलम् - नामेण इंदभूइ-त्ति गायमो वंदिऊण तिविहेणं । पुच्छर जिणवरवसहं, जोइसरायस्स पणति ॥ ४ ॥
छाया - नाम्ना इन्द्रभूतिरिति गौतमो वन्दित्वा त्रिविधेन । पृच्छति जिनवरवृषभं, ज्योतीराजस्य प्रज्ञप्तिम् ॥४॥