________________
प्रतिप्रकाशिका टीका
मङ्गलाचरणं शास्त्रप्रतिज्ञा ३
तस्य सललितं लालित्यसहितं मनोज्ञलीलासहितत्वात् एतादृशं यत् गतं गमनं तद्वत् विक्रमः पदन्यासो यस्य स तथा मदोन्मत्तगजेन्द्रवत् मनोहारिगतियुक्त इत्यर्थः, पुनः कीदृशो बीरः ! इत्याह- 'भयवं' भगवान् - भगः ऐश्वर्यादिरूपः उक्तश्च
"
ऐश्वर्यस्य समग्रस्य, रूपस्य यशसः श्रियः । धर्मस्याथ प्रयत्नस्य, षण्णां भग इतीङ्गना ॥१॥
सोऽस्यास्तीति भगवान् । भगवच्छन्दस्य विस्तृतव्याख्या आचाराङ्गसूत्रे प्रथमश्रुतस्कन्धस्य मत्कृतायामाचारचिन्तामणिटीकायां विलोकनीया । अनेन वागतिशयः पूजातिशयश्च सूच्यते । पूजाऽत्र सुरासुरनरनिकर कृतती र्थक रादर सत्कारलक्षणा विज्ञातव्येति । आभ्यां द्वाभ्यामतिशयाभ्यां ज्ञानातिशयो लभ्यते, ज्ञानातिशये सति अपायापगमातिशयस्यावश्यम्भावात् अपायापगमातिशयोऽपि सिध्यति । तीर्थकराणां अपायाऽपगम-पूजा - वाणी - ज्ञानातिशयभेदात् चत्वारो मूलातिशया भवन्ति । एते चत्वारोऽतिशया :- 'अवद्वियकेसमंसुरोमन हे ' अवस्थितकेशश्मश्रुरो मनखः, इत्यादिचतुस्त्रिंशदतिशयानामुपलक्षणम्, उपरोक्तमूलातिशयचतुष्टयमन्तरेण शेषाणां चतुस्त्रिंशदतिशयानामसम्भवात्, ततश्च चतुस्त्रिंशदतिशयोपेतो भगवान् वीरो जयतीति पूर्वेण सम्बन्धः ॥ गा० १ ॥
पूर्व वर्तमानतीर्थ कर श्री वर्धमानस्वामिनं प्रणम्य साम्प्रतं सामान्येन पश्च परमेष्ठिनां नमस्कारमाह - 'नमिकण' इत्यादि ।
मूलम् — नमिण असुरसुरगरुलभुयगपखिंदिए गयकिले से । अरिहे सिद्धायरिए, उवज्झाए सव्वसाहू य ॥२॥
छाया - नत्वा असुरसुरगरुड भुजगपरिवन्दितान् गतक्लेशान् । अर्हतः सिद्धाचार्यान्, उपाध्यायान् सर्वसाधूच ॥२॥
व्याख्या- 'असुरसुरगरुल भुयगपरिबंदिए' असुरसुरगरुड भुजग परिवन्दितान् तत्रअसुरा=असुरकुमाराः सुराः - वैमानिकदेवाः गरुडा : = सुवर्णकुमारदेवाः, भुजगाः नागकुमारदेवाः उपलक्षणात् शेषाणां - विद्युत्कुमारादीनामपि ग्रहणं भवति, तैः परिवन्दितान् = नमस्कृतान् 'गयकिऐसे' गतक्लेशान् अपगतजन्ममरणादिक्केशान् एतादृशान् अर्हतः - तीर्थकृतः, तथा 'सिद्धायरिए ' सिद्धाचार्यान् सिद्धान् आचार्यांश्च तत्र सिद्धान् = व्यपगतसकलकर्ममलत्वेन सिद्धिगतिनामधेयं स्थानं प्राप्तान्, आचार्यान् स्वयं पञ्चविधज्ञानाद्याचारं परिपालयन्तः सन्तः परान् प्रति तदुपदेश