SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ २२८ चन्द्रप्राप्ति अन्ते चाश्विनी, इत्येवंरूपाणि 'पण्णत्ता' प्रज्ञप्तानि, 'एगे एवमाहंमु' एके पश्चमा एवमाहुः ।। तदेवमन्यतीर्थिकाणां पश्च प्रतिपत्तीः प्रदर्य भगवान् साम्प्रतं स्वमतं प्रकटयति-'वयं प्रण' इत्यादि, 'वय पुण' वयं पुनः 'एवं' एवम्-वक्ष्यमाणप्रकारेण 'वयामो' वदामः कथयामः, तदेवाह-'ता' इत्यादि, 'ता'तावत् 'सव्वे विणं णक्खत्ता' सर्वाण्यपि खलु नक्षत्राणि 'अभिईआदिया उत्तरासाढा पज्जवसाणा' अभिजिदादिकानि उत्तराषाढापर्यवसानानि, अभिजित आरभ्य उत्तराषाढा. पर्यन्तानि, सर्वेषां नक्षत्राणामादौ अभिजित्, अन्ते च उत्तराषाढा वर्तते, इत्येवं रूपाणि 'पण्णत्ता' प्राप्तानि कथितानि, वस्तुतो नक्षत्राणां गणनाक्रमः अभिनिदादिकः उत्तराषाढापर्यवसान एव भवति, नान्यः क्रमः समीचीनः, अन्यतीर्थिकाणां पञ्चापि प्रतिपत्तयो मिथ्यारूपा अतो न स्वीकरणीयाः । तान्येव नक्षत्राणि दर्शयति-'अभिई' इत्यादि, अभिजित् १, 'सवणे' श्रवणः २, 'जाव' यावत् , यावत्पदेन धनिष्ठा ३, शतभिषक् ४, पूर्वाभाद्रपदः ५, उत्तराभाद्रपदः ६, रेवती ७, अश्विनी ८, भरणी ९, कृत्तिका १०, रोहिणी ११, मृगशिरः १२, मार्दा १३, पुनर्वसुः १४, पुष्य १५, अश्लेषा १६, मघा १७, पूर्वाफाल्गुनी १९, हस्तः २०, चित्रा २१, स्वातिः २२, विशाखा २३, अनुराधा २४, ज्येष्ठा २५, मूलम् २६, पूर्वाषाढा २७ इति संग्राह्यम् 'उत्तरासाढा' उत्तराषाढा २८, इत्यष्टाविंशतितमं नक्षत्रं वाच्यम् । अत्राशङ्कयते यत्-सर्वेषां नक्षत्राणामादौ अभिजित् मन्ते च उत्तराषाढा, इत्येव कथम् ? इत्याह-इह सर्वेषामपि सुषमसुषमादि रूपकालविशेषाणामादि च युगं भवति, उक्तश्च-'एए उ मुसमसुसमादओ अद्धाविसेसा जुगादिना सह पवत्तति जुगंतेण सह समप्पंति' छाया-एते तु सुषमसुषमादयः अदाविशेषा युगादिना सह प्रवर्तन्ते, युगान्तेन सह समाप्यन्ते, इति । युगस्यादिश्च-श्रावणमासे बहुलपक्षे प्रत्तिपत्तिथौ बालवकरणे अभिजिन्नक्षत्रे चन्द्रेण सह योग प्राप्ते सति भवति, तथा चोक्तम् "सावणबहुलपडिवए, बालवकरणे अभीइनक्खत्ते । सव्वत्थ पढमसमए, जुगस्स आई वियाणाहि" ॥१॥ छाया-श्रावणबहुलप्रतिपदि, बालवकरणे अभिजिन्नक्षत्रे । सर्वत्र प्रथमसमये, युगस्य आदि विजानीहि ॥१॥ सर्वत्रेति भरते, ऐरवते, महाविदेहे चेति । अतएव भगवता कथितम्-अभिजिदादीनि उत्तराषाढापर्यवसानानि सर्वाणि नक्षत्राणि भवन्तीति ॥सू०१॥ इति-श्री-विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचकपञ्चदशभाषाकलितललितकलापालापक-प्रतिशुद्धगद्यगद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहुच्छत्रापति कोल्हापुरराजप्रदत्त "जैनशास्त्राचार्य' पदभूषित-कोल्हापुरराजगुरु बालब्रह्मचारि-जैनशास्त्राचार्य-जैनधर्मदिवाकर श्रीधासीलालवति-विरचितायां चन्द्रप्रज्ञप्तिसूत्रस्य चन्द्रप्रज्ञप्तिप्रकाशिकाख्यातां व्याख्यायाम् दशमप्रामृते प्रथममं प्राभृतं समाप्तम् ॥१०-१॥
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy