________________
तिप्रकाशिका टीका प्रा० १० १ सू १
चन्द्रसूर्ययोः आवलिकानिपातः २२७
व्याख्या
'ता जोगेति' इति । 'ता' तावत् - आस्तां तावदन्यत् कथनीयं साम्प्रतमेतावदेव कथ्यते यत् 'जोगेत्ति' योग इति 'वत्थुस्स' वस्तुनः नक्षत्रजातस्य 'आवलियानिवाए' आबलिकानिपातः आवलिकया पंक्तचा क्रमेणेत्यर्थः निपातः चन्द्रसूर्यै: सह संपातः संयोगः स एव योग इति 'आहिए' आख्यातः कथितो मया 'त्ति वएज्जा' इति वदेत् स्वशिष्येभ्यः कथयेत् । भगवता एवमुक्ते गौतमः पृच्छति 'ता कहं ते' इत्यादि, 'ता' तावत् प्रथमं हे भगवन् ! 'ते' त्वया 'कहूं' कथं केन प्रकारेण 'जोएत्ति' योग इति 'वत्थुस्स' वस्तुनः नक्षत्रजातस्य 'आवलियाणिवाए' आवलिकानिपातः क्रमेण चन्द्रसूर्यैः सह संपात : 'आहिए' आख्यातः कथितः, तस्य कः प्रकारः ? 'त्तिवएज्जा' इति वदेत् वदतु कथयतु भगवान् अथात्र भगवान् प्रथममन्यतीर्थिकाणां प्रतिपत्ती: प्रदर्शयति 'तत्थ खलु' इत्यादि, 'तत्थ' तत्र नक्षत्राणां योगविषये खलु 'इमाओ' इमाः अग्रे प्रवक्ष्यमाणाः 'पंच' पञ्चेति पश्चसंख्यकाः 'पडिवत्तीओ' प्रतिपत्तयः 'पण्णत्ताओ' प्रज्ञप्ताः कथिताः, 'तं जहा' तद्यथा ता यथा - ' तत्थ' तत्र पञ्चसु प्रतिपत्तिवादिषु मध्ये 'एगे' एके प्रथमा: ' एवं ' एवम् - वक्ष्यमाणप्रकारेण 'आहंसु' आहुः कथयन्ति 'ता' तावत् 'सव्वे वि णं णक्खता' सर्वाणि समस्तानि अपि खलु नक्षत्राणि 'कत्तियादिया भरणी पज्जवसाणा' कृत्तिकादीनि भरणीपर्यवसानानि कृत्तिकात आरभ्य भरणीपर्यन्तानि सर्वेषां नक्षत्राणामादौ कृतिका अन्ते भरणी इति 'पण्णत्ता' प्रज्ञतानि । उपसंहारः - 'एगे' एके प्रथमाः ' एवं ' एवं पूर्वोक्तप्रकारेण 'आहंसु' आहुः कथयन्ति | १| 'एगे पुण' एके द्वितीयाः पुनः ' एवं ' एवम् वक्ष्यमाणप्रकारेण 'आहंसु 'आहुः कथयन्ति - 'ता' तावत् 'सव्वे वि णं णक्खत्ता' सर्वाण्यापि खलु नक्षत्राणि 'मघाइया अस्से सापज्जवसाणा' मघादिकानि अश्लेषा पर्यवसानान मघात आरभ्य अश्लेषापर्यन्तानि सर्वेषां नक्षत्राणां आदौ मघा, अन्ते अश्लेषा, इति 'पण्णत्ता' प्रज्ञप्तानि कथितानि, 'एगे एवमाहंस' एके एवमाहुः द्वितीया एवं कथयन्ति |२| 'एगे पुण' एके तृतीयाः पुनः ' एवं ' एवम् वक्ष्यमाणप्रकारेण 'आहंसु' आहुः कथयन्ति 'ता' तावत् 'सव्वा विणं णक्खत्ता' सर्वाण्यपि खलु नक्षत्राणि 'घणिट्ठादिया सवणपज्जवसाणा' घनिष्ठादिकानि श्रवणपर्यवसानानि घनिष्ठात आग्भ्य श्रवणपर्यन्तानि सर्वेषां नक्षत्राणामादौ धनिष्ठा, अन् श्रवणः, इत्येवं रूपाणि 'पण्णता' प्रज्ञप्तानि 'एगे एवमाहु' एके तृतीया एवमाहुः | ३ | 'एगे पुण' एके चतुर्थाः पुनः ' एवं ' एवम् वक्ष्यमाणप्रकारेण 'आहंसु' आहुः कथयन्ति - 'ता' तावत् 'सब्वेवि णं णक्खत्ता' सर्वाण्यपि खलु नक्षत्राणि 'अस्सिणीआदिया रेवई पज्जवसाणा' अश्विन्यादिकानि रेवतीपर्यवसानानि, अश्विनीत आरभ्य रेवतीपर्यन्तानि सर्वेषां नक्षत्राणामादौ अश्विनी अन्ते रेवती, इत्येवं रूपाणि 'पण्णत्ता' प्रज्ञप्तानि कथितानि, 'एगे एवमाहंसु' एके चतुर्था एव माहुः |४| 'एगे पुण' के पश्चमा पुनः ' एवं ' एवम् वक्ष्माणप्रकारेण 'आहंसु' आहुः 'सव्वेवि णं णक्खत्ता' सर्वाण्यपि स्खलु नक्षत्राणि 'भरणीआदिया अस्सिणीपज्जवसाणा' भरण्यादिकानि अश्विनीपर्यवसानानि, भरणीत आरभ्य अश्विनीपर्यन्तानि, सर्वेषां नक्षत्राणामादौ भरणी,