________________
२२०
चन्द्रप्रज्ञप्तिसूत्रे च्छिन्न आकाशप्रदेशः सन्ताप्यते तत्र समागतः प्रकाश्यवस्तुप्रमाणां छायां निवर्तयति एवमुत्तरत्रापि विज्ञेयम् ।।
अथ द्वितीयप्रतिपत्तिभावं प्रदर्शयति-'तत्थ णं' इत्यादि । 'तत्य णं' तत्र षण्णवतिप्रतिपत्तिवादिषु मध्ये खलु-'जे ते' ये ते द्वितीयाः एवं' एवम् वक्ष्यमाणप्रकारेण 'आहंसु' आहुः कथयन्ति-'ता' तावत् 'अत्थि णं से देसे जंसि च णं देससि सरिए दुपोरिसिं छायं निव्वत्तेई' इति अर्थः सुगम एव पूर्व प्रदर्शितश्च, 'ते' द्वितीयाः ‘एवं' एवम्-अनेन हेतुना 'आईसु' आहुः कथयन्ति, तमेव हेतुं प्रदर्शयति 'ता' इत्यादि, 'ता' तावत् 'सूरियस्स णं' सूर्यस्य खलु 'सव्वहेडिमाओ' सर्वांधस्तनात् सर्वथाऽधोभागे स्थितात् 'मूरियप्पडिहिओ' सूर्य प्रतिधेः सूर्यनिवेशात् 'बहित्ता' बहिस्तात् 'अभिणिस्सिदाहि' अभिनिस्सृष्टाभिः बहिनिर्गताभिः 'लेस्साहि' लेश्याभिः तेजोरूपाभिः 'तविज़्जमाणीहिं' तप्यमानाभिः तापं मुञ्चन्तीभिः सह 'इमीसे रयणप्पभाए पुढवीए' अस्या रत्नप्रभायाः पृथिव्याः 'बहुसमरमणिज्जाओ भूमि भागाओ' बहुसमरमणीयात् भूमिभागात् समतलभूमिभागात् 'जावइयं' यावत्कं यावत्परिमितम् 'मूरिए' सूर्यः 'उद्डं उच्चत्तेणं' ऊर्ध्वमुच्चत्वेन उच्चत्त्वमाश्रित्य ऊर्ध्व स्थितः ‘एचइयाहि एतावद्भयां 'दोहिं अद्धाहि' द्वाभ्यामध्वभ्यां, 'दोहिं छायाणुमाणप्पमाणेहि' द्वाभ्यां छायानुमानप्रमाणाभ्यां प्रकाश्यवस्तुप्रमाणाभ्याम् 'ओमाए' अवमितः अनुमितः परिच्छिन्नो यो देशः 'एत्थ णं' अत्र खलु देशे स्थितः सन् 'सूरिए दुपोरिसिं छायं णिवत्तेइ सूर्यः द्विपौरुषीम् प्रकाश्यवस्तुनः पुरुषस्य वा द्विगुणां छायां निवर्तयतीति ।२। एवं' एवम्-अनेन अभिलाप प्रकारेण-एकैकप्रतिपत्तौ एकैकछायानुमानप्रमाणवृद्धिरूपेण 'णेयव्वं' नेतव्यं तावत् ज्ञातव्यं 'जाव' यावत् पञ्चनवतितमप्रतिपत्त्यभिलापः संपूर्णो भूत्वा षण्णवतितमप्रतिपत्त्यभिलापः प्रारभेत तावत्पर्यन्तमित्यर्थः सूत्रालापकाश्च स्वयमूहनीयाः । अथ षण्णवतितमप्रतिपत्तिभावनिकां सूत्रकारः स्वयं प्रदर्शयति-तत्थ' इत्यादि, 'तत्थ' तत्र षण्णवतिप्रतिपत्तिवादिमध्ये 'जे ते' ये ते षण्णवतितमाः प्रतिपत्तिवादिनः सन्ति ते 'एवं' एवम्-वक्ष्यमाणप्रकारेण 'आइंसु' आहुः कथयन्ति, 'तदेवाह-'ता' इत्यादि, 'ता' तावत् 'अस्थि णं' अस्ति विद्यते खलु ‘से देसे' स देशः सूर्यसंस्थितिप्रदेशः 'जसि च णं देसंसि' यस्मिंश्च खलु देशेऽवस्थितः सन् 'सूरीए' सूर्यः 'छण्णउइ पोरिसिं छायं' षण्णवतिपौरुषों छायां पुरुषस्य अन्यस्य वा प्रकाश्यवस्तुनः षण्णवतिगुणां छायां 'निव्वत्तेइ' निवर्तयती करोतीति ये कथयन्ति ते 'एवं' एवम् अनेन वक्ष्यमाणेन कारणेन अग्रे कथ्यमानं कारणमाश्रित्येत्यर्थः 'आहेसु' माहुः कथयन्ति । तदेव कारणं प्रदर्शयति-'ता सूरियस्स णं' इत्यादि, 'ता' तावत् 'सूरियस्स ण' सूर्यस्य खलु 'सव्वहिद्विमानो' सर्वाधस्तनात् 'सरियप्पडिहिओ' सूर्यप्रतिधेः सूर्यनिवेशात् 'बहिता' बहिस्तात् बहिः 'अभिनिम्हिाहि'