________________
चन्द्राप्तिप्रकाशिका टीका प्रा० ९ सू०३ पौरुषीछायाविषयेऽन्यतीर्थिकमतम् २१९ पञ्चनवतितमप्रतिपत्तिपर्यन्तं तावत् 'नेयवं' नेतव्यं ज्ञातव्यं 'जाव' यावत् षण्णवतितमप्रतिपत्तिसूत्रमायाति । तामेव षण्णवतितमा प्रतिपत्तिं सूत्रकारः स्वयं प्रदर्शयति 'ता अस्थि णं' इत्यादि । 'ता' तावत् 'अस्थि णं से देसे' अस्ति विद्यते खलु सः देशः 'जसि च णं देसंसि' यस्मिंश्च खलु देशे 'सूरिए' सूर्यः आगतः सन् 'छण्णउइपोरिसिं छायं' षण्णवतिपौरुषों षण्णवतिपुरुषप्रमाणां पुरुषस्य प्राकाश्यवस्तुनश्च षण्णवतिगुणां छायां 'निव्वत्तेई' निवर्तयति । मध्यगतानिनवतिसंख्यका आलापाश्च पूर्वोक्तरीत्या स्वयमेव विधातव्याः सुगमत्वान्न प्रदर्शिताः उपसंहारः ‘एगे' एके षण्णवतितमप्रतिपत्तिवादिनः ‘एवं पूर्वोक्तरीत्या 'आईसु' आहुः कथयन्ति ।९६।
___ अथ भगवान् ‘एते षण्णवतिप्रतिपत्तिवादिनः केन हेतुना एवं कथयन्ति ?' इति तेषां भावनिका प्रदर्शयति-'तत्थ णं जे ते' इत्यादि । 'तत्थ णं जे ते' तत्र षण्णवतिप्रतिपत्तिवादिषुमध्ये ये ते प्रथमाः ‘एवं' एवम् वक्ष्यमाणप्रकारेण 'आइंसु' आहुः कथयन्ति, तदेव दर्शयति'ता अस्थि णं' इत्यादि, 'ता अत्थि णं से देसे जसि च णं देसंसि सरिए एगपोरिसिं छायं नियत्तेइ' अर्थः सुगमः पूर्वप्रदर्शितश्च, 'ते' प्रथमप्रतिपत्तिवादिनः 'एवं' एवम् अनेन वक्ष्यमाणेन हेतुना 'आइंसु' आहुः कथयन्ति, तमेव हेतुं प्रदर्शयति-ता सूरियस्स णं' इत्यादि 'ता' तावत् 'सूरियस्स णं' सूर्यस्य खलु 'सव्वहेटिमाओ' सर्वाधस्तनात् सर्वथाऽधस्तनस्थितात् 'मूरियप्पडिहिओ' सूर्यप्रतिधेः सूर्यप्रतिधानात् सूर्यनिवेशात् सूर्यनिवेशस्थानादित्यर्थः 'बहित्ता' बहिस्तात् बहिर्भागे 'अभिणिसिहाहिं' अभिनिस्सृष्टाभिः बहिनिस्सृिताभिरित्यर्थः 'लेस्साहिं' लेश्याभिस्तेजोरूपाभिः, कीदृशीभिः ! 'तविज्जमाणीहि तप्यमानाभिः सूर्यतेजसा तप्ताभिः सह 'इमीसे रयणप्पभाए पुढवीए' अस्याः प्रसिद्धायाः रत्नप्रभायाः पृथिव्याः 'बहुसमरमणिज्जाओ 'भूमिभागाओ' बहुसमरमणीयात् भूमिभागात् रत्नप्रभापृथिवीसमतलभूमिभागात् 'जावइयं' यावत्कं यावत्परिमितम् 'उडं उच्चत्तेणं' उर्ध्वमुच्चत्वेन उच्चत्वमाश्रित्य ऊर्ध्व स्थितः 'एवइ. याए' एतावता 'एगाए अद्धाए' एकेन अध्वना 'एगेणं छायाणुमाणपमाणेणं' एकेन छायानुमानप्रमाणेन प्रकाश्यवस्तुप्रमाणेन प्रकाश्यस्य वस्तुनो यमुद्देश्यमाश्रित्य प्रमाणमनुमीयते तेन, अत्राकाशप्रदेशे सूर्यसमीपे प्रकाश्यस्य वस्तुनः प्रमाणं साक्षात् परिग्रहीतुं न शक्यते किन्तु देशतः-अनुमानेन ततश्छायानुमानप्रमाणेनेत्युक्तम् , 'ओमाए' अवमितः अनुमितः यः प्रदेशः 'एत्थ णं' अत्र एकेन छायानुमानप्रमाणेन अनुमितप्रदेशे समागतः सन् 'सूरिए' सूर्यः 'एगपोरिसिं छायं' एकपौरुषी पुरुषप्रमाणां प्रकाश्यवस्तुप्रमाणां वा छायां 'निव्वत्तइ' निर्वर्तयति । अत्रेदं बोध्यम्-प्रथमं सूर्ये उदयमाने या लेश्या विनिर्गत्य प्रकाशमाश्रिताः ताभिः प्रकाश्यवस्तुदेशे ऊर्ध्व क्रियमाणाभिः किञ्चित्पूर्वाभिमुखमबनताभिः प्रकाश्येन वस्तुना च यः परि