________________
२१८
चन्द्रप्रशसियो
लेश्याभि- तप्यमानाभिः अस्याः रत्नप्रभायाः पृथिव्याः बहुसमरमणीयाद् भूमिभामाद यावत्कं सूर्यः ऊर्ध्वमुच्यत्वेन पतावद्भयां द्वाभ्याम् अध्वभ्यां द्वाभ्यां छायानुमान. प्रमाणाभ्याम् अमितः, अत्र खलु स सूर्यः द्विपौरूषीं छायां तिर्वर्तयति ।। एवं नेतव्यं यावत्-तत्र ये ते एवमाहुः तावत् अस्ति खल स देशः यस्मिश्च खलु देशे सूर्यः षण्णवतिपौरूषी छायां निर्वतर्यात, ते एवमाहुः तावत् सूर्यस्य स्खलु सर्वाधस्तनात् सूर्यप्रतिधेः बहिस्तात् अभिनिस्सृष्टाभिः लेश्यामि तप्यमानाभिः अस्याः खल रत्नप्रभायाः पृथिव्याः वहुसमरमणीयात् भूमिभागात् यावत्कं सूर्यः ऊर्ध्वमुच्चत्वेन पतावद्भिः षण्णवत्या अभिः षण्णवत्या छायानुमानप्रमाणः अमितः अत्र स्खलु स सूर्यः षण्णवतिपौरूषीं छायां निवर्तयति ॥९॥सू०३॥
व्याख्या-'ता' तावत् 'कइकट्ठ' कतिकाष्टां उत्कर्षेण किं प्रमाण 'ते' तव भवतो मते 'मूरिए' सूर्यः 'पोरिसिं छायं' पौरुषी पुरुषप्रमणाम् उपलक्षणात् कस्यापि प्रकाश्यवस्तुनस्तत्प्रमाणां देशविभागेन छायां 'निव्वत्तेइ' निवर्तयति, एतद्विषये भवता किम् 'आहियं' आख्या तम् ! 'ति वएज्जा' इति वदेत् कथयतु हे भगवन् भगवान् । स्वमतेन देशविभागमाश्रित्य पौरुषी छायां पृथक् २ तथा तथा-अनियतप्रमाणामग्रे वक्ष्यति, परतीर्थिकास्तु देशविभागेन प्रतिदिवसं प्रतिनियतामेव पौरुषी छायां प्रतिपादयन्ति ततः प्रथमं तन्मता एव प्रतिपत्तीः प्रदर्शयति-'तत्थ' इत्यादि । 'तत्थ खलु' तत्र देशविभागेन प्रतिदिवसं प्रतिनियतपौरुषों छाया विषये 'इमाओ' इमाः अनुपदवक्ष्यमाणाः 'छण्णउई' षण्णवतिः षण्णवतिसंख्यकाः 'पडिवत्तीओ' प्रतिपत्तयः परमतरूपाः ‘पण्णत्ताओ' प्रज्ञप्ताः, तं जहा' तद्यथा- ता यथा-'तत्थ' तत्र परतीर्थिकानां षण्णवति प्रतिपत्तिवादिनां मध्ये 'एगे' एके प्रथमाः ‘एवं' एवम्-वक्ष्यमाणप्रकारेण 'आहंमु' आहुः कथयन्ति-'ता' तावत् 'अस्थि णं' अस्ति खलु ‘से देसे' स एतादृशो देशः प्रदेश: 'जसिच ण देससि' यस्मिंश्च खलु देशे 'मूरिए' सूर्यः आगतः सन् ‘एगपोरिसिं' एक पौरुषी एक पुरुषपरिमितां पुरुषसमानामेव, पुरुषशब्दस्योपलक्षणत्वात् सर्वस्यापि प्रकाश्यवस्तुनः स्वस्व. प्रमाणां 'छायं' छायां 'निव्वत्तेई' निवर्तयति करोति, 'एगे' एके प्रथमाः ‘एवं' एवम् पूर्वकथितप्रकारेण 'आहंसु' आहुः कथयन्ति ।१। 'एगे पुण' एके द्वितीयाः पुनः ‘एवं' एवम्-वक्ष्यमाणप्रकारेण 'आहंसु' आहुः कथयन्ति-'ता' तावत् 'अस्थि णं से देसे' अस्ति खलु कोऽपि स देशः प्रदेशः 'जसि च णं देसंसि' यस्मिंश्च खलु देशे 'मूरिए' सूर्यः समागतः सन् 'दुपोरिसिं छायं" द्विपौरुषों द्विपुरुषप्रमाणां पुरुषस्य प्रकाश्यस्य कस्यापि वस्तुनः द्विगुणां हायां 'निव्वत्तेई' निवर्तयति, उपसंहारः ‘एगे' एके द्वितीयाः ‘एवं' एवम् पूर्वोक्तप्रकारेण 'आहंस' आहुः-कथयन्ति ।२। ‘एवं' एवम्-अनेनैव पूर्वोक्तेन प्रकारेण 'एएणं' एतेन पूर्वोक्तेन 'अभिलावणं' अभिलापेन सूत्रपाठगमेन शेषं त्रिनवतिसंख्यकानां मध्यगतानां तृतीयप्रतिपत्तित आरभ्य