SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ चन्द्रममकाशिका टीका प्रा०९० २ पौरुषी छायायाः प्रमाणनिरूपणम् 'उत्तमकट्टपत्ते' उत्तमकाष्ठा प्राप्तः परमप्रकर्षसंपन्नः 'उक्कोसए' उत्कर्षक: सर्वोत्कृष्टः 'अट्ठारसमुहुते दिवसे भव' अष्टादशमुहूर्त्ता दिवसो भवति, 'जहण्णिया' जधन्यिका सर्वलघ्वी 'दुवालसमुडुता राई भवई' द्वादशमुहूर्त्ता रात्रिर्भवति 'तंसि च णं दिवसंसि तस्मिंश्च खलु सर्वोत्कृष्टदिवस सर्वजघन्यरात्रिरूपे दिवसे 'सूरिए' सूर्यः 'चउपोरिसिं छायं चतुष्पौरुष छायां 'निव्वत्ते ' निर्वर्त्तयति । कस्मिन् समये : इत्याह- 'तं जहा' तद्यथा 'उगमणमुहुत्तंसि' य अत्थमणमुहुसंसि य' उद्गमनमुहूर्ते च अस्तमनमुहूर्ते च 'लेस्सं' लेश्यां तेजो रूपाम् 'अभिवुड्ढेमाणे वा' अभिवर्धयन् वा उद्गमनमुत्तै तेजोरूपां स्वलेश्यां प्रवर्धयन् वा, तथा 'निव्वुइढेमाणे वा' निर्वर्धयन् वा सूर्योऽस्तमनसमये स्वलेश्यां हापयन् वा । २९५ सूर्यो द्विपौरुषीं छायां कदा निर्वर्त्तयतीति दर्शयति 'ता जया णं इत्यादि, । 'ता' तावत् 'जया णं' यदा खलु 'सूरिए' सूर्य: 'सन्नबाहिरं मंडलं उवसंकमित्ता चारं 'चर' सर्व बाह्यमण्डलम् उपसंक्रम्य चारं चरति 'तया णं' तदा खलु 'उत्तमकट्टपत्ता' उत्तमकाष्ठा प्राप्ता परमप्रकर्षसंपन्ना 'उक्कोसिया' उत्कर्षिका सर्वोत्कृष्टा 'अट्ठारसमुहुत्ता राई भवई ' अष्टादशमुहूर्त्ता रात्रिर्भवति, 'जहण्णए' जघन्यकः 'दुवालसमुहुत्ते दिवसे भवई' द्वादशमुहूतों दिवसो भवति तंसि च णं' तस्मिंश्च सर्वोत्कृष्टरात्रि - सर्वजघन्यदिवस रूपे खलु 'दिवसंसि' दिवसे 'सूरिए' सूर्य : 'दुपोरिसिं छायं निव्बत्तेह' द्विपौरुषीं छायां निर्वर्त्तयति पुरुषस्य प्रकाश्यवस्तु नो वा द्विगुणां छायां निर्वर्त्तयतीति भावः । कदा द्विपौरुषी छाया भवतीत्याह 'तं जहा' तद्यथा 'उग्गमण मुहुत्तंसि य अत्थमणमुहुत्तंसि य' उद्गमन मुहूर्ते च अस्तमनमुहूर्त्ते च उदयास्तसमये इत्यर्थः । तच्च 'लेस्सं' लेश्यां स्वतेजोरूपां 'अभिवुड्ढेमाणे वा' अभिवर्धयन् वा 'निव्वुड्ढे माणे वा' निर्वर्धयन् वा लेश्या हापयन् वा, उदयसमये लेश्यां वर्धयन् अस्तमनसमये च लेश्यां हापयन् हीनां कुर्वन् वा द्विपौरुषीं छायां सूर्यो निर्वर्त्तयतीतिभावः । इति प्रथमप्रतिपत्तेर्भेदद्वयस्य स्पष्टी करणम् ।१। अथ द्वितीयप्रतिपत्तेर्भेदद्वयस्य स्पष्टीकरणमाह- 'तत्थ णं जे ते' इत्यादि, 'तत्थ णं' तत्र द्वयोर्मध्ये ये ते द्वितीयाः प्रतिपत्तिवादिनः यत् 'एवमाहंसु' एवं वक्ष्यमाणप्रकारेणाहुः यत् 'ता' तावत् 'अस्थि णं से दिवसे' अस्ति भवति खल स दिवस: 'जंसि णं दिवसंसि' यस्मिन् स्खलु दिवसे 'स्वरिए' सूर्यः 'दुपोरिसिं छायं निव्वत्तेइ' द्विपौरुषीं छायां निर्वत्तयति । ' अहवा' अथवा 'अत्थि णं' अस्ति खलु 'से दिवसे' स दिवस: 'जंसि णं दिवसंसि' यस्मिन् खलु दिवसे 'रिप' सूर्यः 'नो किंचिवि' नो नैव काश्चिदपि किञ्चिन्मानामपि 'पौरिसिं छायां' पौरुषीं छायां 'निव्वत्तेइ' निर्वर्त्तयति, 'ते' ते द्वितीयाः प्रतिपत्तिवादिनः ' एवं ' एवम् वक्ष्यमाण
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy