________________
प्रज्ञप्तिसूत्र
तदेवं लेश्या स्वरूपं प्रतिपादितम्, अथ पौरुषीछायापरिमाणविषये ऽन्यतैर्थिकप्रतिपत्ति द्वयं वर्त्तते तत्प्रदर्शयितुमाह - ' तत्थ' इत्यादि ।
२१४
'तत्थ खलु' तत्र पौरुषोछायापरिमाणविषये खलु 'इमाओ' इमे वक्ष्यमाणस्वरूपे 'दो पडिवत्तीओ' द्वे प्रतिपत्ती 'पण्णत्ताओ' प्रज्ञप्ते कथिते । 'तं जहा' तद्यथा ते द्वे यथा 'एगे ' एके द्वयोर्मध्ये प्रथमाः प्रतिपत्तिवादिनः ' एवं ' एवम् - वक्ष्यमाणप्रकारेण 'आहंसु' आहुः कथयन्ति, तथाहि 'ता' तावत् 'अस्थि णं' अस्ति खलु 'से दिवसे' स दिवसः एतादृशो दिवसो भवति खलु 'जंसि च णं' यस्मिंश्च खलु 'दिवसंसि' दिवसे 'सूरिए' सूर्य उदयास्तसमये 'चउ - पोरिसिं छायं निव्वत्तेइ' चतुष्पौरुषं छायां निर्वर्त्तयति उत्कृष्टेन रचयति करोतीत्यर्थः । चतुः पौरुषी मिति चतुः पुरुषप्रमाणां पुरुषशरीरचतुर्गुणामित्यर्थ उपलक्षणात् अन्यस्य कस्यापि प्रकाश्य वस्तुनस्तस्मिन् दिवसे तद्वस्तुतश्चतुर्गुणां छायां निर्वर्त्तयतीति भावः । ' अहवा' अथवा ' अस्ति स दिवसो यस्मिंश्च दिवसे सूर्यः 'दुषोरिसिं छायं' द्विपौरुषों छायां द्विगुणां छायाम् उद्गमना - स्तमनसमये 'निव्वत्तेइ' निर्वर्त्तयति नान्यथेति । 'एगे' एके ' एवं' एवम् पूर्वोक्तप्रकारेण 'आहंसृ' आहुः कथयन्ति | १ | 'एगे पुण' एके द्वितीयाः पुनः एवं एवम् वक्ष्यमाणप्रकारेण 'आहंसु' आहुः कथयन्ति यत्- 'ता' तावत् 'अस्थि णं' अस्ति भवति खलु 'से दिवसे' सदि वसः 'जंसि च णं' यस्मिन् खलु 'दिवसंसि' दिवसे उद्गमनास्तमनमुहूर्त्ते 'सूरिए' सूर्यः 'दुपोंरिसिं छायं' द्विपौरुष छायां कस्यापि प्रकाश्यवस्तुनः द्विगुणां छायामित्यर्थः "निव्वत्तेइ' निर्व र्त्तयति निर्माति । 'अहवा' अथवा 'अस्थि णं' अस्ति खलु 'से दिवसे' स दिवस: 'जंसिचणं दिवसंसि यस्मिंश्च खलु दिवसे उदयास्तसमये 'न किंचिवि पोरिसिं छायां न काश्चिदपि पौरुष छायां 'निव्वत्तेइ' निर्वर्त्तयति । 'एगे' एके द्वितीयाः ' एवं ' एवम् पूर्वोक्तप्रकारेण 'आहंसु' आहुः कथयन्ति ।२।
तदेवं द्वे अपि प्रतिपत्ती प्रदर्श्य साम्प्रतं केन कारणेन एतौ द्वौ प्रतिपत्तिवादिनौ एवं कथयतः इत्येवं भावयति-'तत्थ' इत्यादि । 'तत्थ' तत्र द्वयोर्मध्ये 'जे ते' ये ते प्रथमा ' एवं ' एवम् - वक्ष्यमाणप्रकारेण 'आहंसु' आहुः कथयन्ति - यत् 'अस्थि णं से दिवसे' अस्ति खलु स दिवस: 'जैसि चणं दिवसंसि' यस्मिंश्च खलु दिवसे 'सूरिए' सूर्यः 'चउपोरिसिं छायं निव्वत्तेइ' चतुष्पौरुषीं छायां निर्वर्तयति, 'अहवा' अथवा 'दुपोरिसिं छायं निव्वत्ते ' द्विपौरुषीं छायां निर्वर्त्तयति 'ते णं' ते खलु ' एवं ' एवम् अनेन वक्ष्यमाणेन कारणेन 'आहंस' आहुः कथयन्ति तदेवकारणं दर्शयति- 'ता' इत्यादि । 'ता' तावत् 'जया णं' यदा: खल्ल 'सरिए' सूर्यः 'सव्वन्तरं मंडलं उवसंकमित्ता चारं चरइ' सर्वाभ्यन्तरं मण्डलम् उपसंक्रम्य चारं चरति 'तया णं' तदा खलु