________________
चन्द्रश्चप्तिप्रकाशिका टीका प्रा०९ सू २ पौरुषोछायायाः प्रमाणनिरूपणम् २१३ प्रदर्शयति 'एगे पुण' इत्यादि, ‘एगे पुण' एके पञ्चविंशतितमाः प्रतिपत्तिवादिनः पुनः 'एवं' एवम्-वक्ष्यमाणप्रकारेण 'आहेसु' आहुः-कथयन्ति-यत् 'ता' तावत् 'अणुउस्सप्पिणीओसप्पिणीमेव' अनूत्सर्पिण्यवसर्पिणीमेव प्रत्येकमुत्सर्पिणीमवसर्पिणों चाधिकृत्य 'सूरिए' सूर्यः ‘पोरिसी छायं' पौरुषी छायां 'निव्वत्तेइ' निर्वर्शयति निर्माति । उपसंहारः-'एगे' एके पञ्चविंशतितमाः 'एवं' एवम्-पूर्वोक्तप्रकारेण 'आहेसु' आहुः कथयन्ति ।२५। आसां पञ्चविंशतिप्रतिपत्तीनामालापकप्रकारः प्रथमप्रतिपत्तिप्रोक्तालापकप्रकारेण स्वयमूहनीयः ।
अथ भगवान् ‘एताः परमतरूपाःविशतिरपि प्रतिपत्तयो मिथ्यारूपाः सन्ति इति कृत्वा स्वमतं प्रदर्शयति-'वयं पुण' इत्यादि ।
_ 'वयं पुण' वयं पुनः वयं तु 'एवं' एवम् वक्ष्यमाणरीत्या 'वयामो' 'वदामः कथयामः 'ता' तावत् 'सूरियस्स णं' सूर्यस्य खलु 'उच्चत्तं लेस्सं च' उच्चत्वं लेश्यांतेजोरूपां च ‘पडुच्च' प्रतीत्य आश्रित्य 'छाया उद्देसो' छायोद्देशः छायाप्रकारो भवति, अयमाशयः यदा सू! लेश्यां तेजोरूपां प्रसारयन् उदयमेति तदा पुरुषस्य प्रकाश्यवस्तुनो वा छाया दीर्घा भवति, उदयसमये लोकव्यवहारेण 'सूर्य आसन्नं वर्तते' इति कथ्यते । तदनन्तरं सूर्यो यथा यथा उच्चैरुच्चैस्तरं चाधिरोहति तथा तथा तेजोरूपा लेश्या वर्धते पुरुषस्य प्रकाश्य वस्तुनो वा छाया च हीना हीनतरा भवन्तीति दृश्यते । एवं मध्याह्नपर्यन्तं छाया होना हीन तरा हीनतमा भवति । अयं प्रथमच्छायोदेशः ।१॥ अथ 'उच्चत्तं छायं च पडुच्चलेस्मुद्देसो" सूर्यस्य मध्यागतस्य उच्चत्वं छायां च प्रतीत्य लेश्योद्देशः लेश्याप्रकारो भवति । अयं भावः-यदा सूर्यो मध्याह्नसमयेऽस्माकं मस्तकोपरि वर्त्तते तदा लोक व्यवहारेण ज्ञायते-सूर्यः सर्वोच्चभागे समागत इति, यदा च पुरुषस्य प्रकाश्यवस्तुनो वा छायापरमप्रकर्षेण हीना लध्वी जायते, सा चेतस्ततः पार्श्वभागेन भवति, तदा सूर्यस्य लेश्या तेजोरूपा पराकाष्ठा प्राप्ता जायतेऽतोऽयं लेश्योदेशो द्वितीयो भवतीति ।२। 'लेस्सं च छायं च पडुच्च उच्चत्तउद्देसों' लेश्यां च छायां च प्रतीत्य उच्चत्वोद्देशः । अयमाशयः मध्याह्रादूर्ध्वं सूर्यो यथा यथा उच्चत्वतो नीचैर्नीचैस्तरमतिक्रामति तथा तथा लोकव्यवहारेण कथ्यते- सूर्यः उच्चप्रदेशादधो गच्छतीति, यथा यथा सूर्यो नीचैर्गच्छति तथा तथा तेजोरूपा लेश्याऽपि होना हीनतरा भवति, पुरुषस्य प्रकाश्यवस्तुनो वा छायाऽपि दीर्घा भवतीति ज्ञायते । मध्यान्हगतोच्चत्त्वमधि. कृत्यायमुद्देशो वर्त्ततेऽतोऽयमुच्चत्वोदेशस्तृतीयो भवतीति ।३। एते त्रयोऽप्युदेशाः प्रतिक्षणमन्यथा ऽन्यथा निवर्तन्ते तत एषु एकतरस्य तथा तथा प्रतिक्षणं विवर्तमानस्योद्देशत उपलम्भादितरस्याप्युद्देशस्यावगमः स्वयं कर्तव्य इति ।