________________
चन्द्रप्रक्षप्तिसूत्रे यस्मिश्च खलु दिवसे सूर्यो न किञ्चिदपि पौरुषी छायां निवर्तयति ते एवमाहुः-तावद् यदा खलुं सूर्यः सर्वाभ्यान्तरंमण्डलमुपसंक्रम्य चार चरति तदा खलु उत्तमकाष्ठाप्राप्तः उत्कषकः अष्टादशमुहूत्तों दिवसो भवति, जन्यिका द्वादशमुहूर्ता रात्रिर्भवति तस्मिश्च खलु दिवसे सूर्यः द्विपौरूषों छायां निर्वतयति, तद्यथा-उद्गमनमुहूर्ते च अस्तमनमुहूर्त च लेश्याम् अभिवर्धयन् वा निर्वर्धयन वा । तावत् यदा खलु सूर्यः सर्ववाह्यं मण्डलमुपसंक्रम्य चार चरति तदा खलु उत्तमकाष्ठा प्राप्ता उत्कर्षिका अष्टादशमुहूर्ता रात्रिर्भयति, जघन्यकः द्वादशमुहूर्तों दिवसो भवति तस्मिश्च खलु दिवसे सूर्यः नो काञ्चिदपि पौरूषीं छायां निवर्सयति, तद्यथा उद्गमनमुहूत्ते च अस्तमन् मूहूर्त च नो चैव खलु लेश्याम् अभिवर्धयन् वा निर्वर्धयन् वा । “सूत्र २॥ ... व्याख्या-'ता' तावत् 'कइकलु' कतिकाष्ठां कियत्प्रकर्षोपेतां प्रकर्षतः कियत्परिमितां हे भगवन् 'ते' तवमते 'सरिए' सूर्यः ‘पोरिसी छायां' पौरुषों छायां-पुरुषेण निर्वृत्ता पौरुषी पुरुषप्रमाणा तां तादृशी छायां 'निव्वत्तेई' निवर्तयति रचयति करोतीत्यर्थः । कियत्प्रमाणां परा काष्ठासंपन्नां पौरुषी छायां सूर्यो निवर्तयतीति भावः । एतद्विषये किम् 'आहिए' आख्यातम् ? 'तिबएज्जा' इति वदेत् वदतु कथयतु हे भगवन् ! गौतमेन एवं प्रश्ने कृते भगवानाह हे गौतम ! 'तत्थ णं' तत्र पौरुषीछायाविषये खलु 'इमाओ' इमाः अनुपदमने प्रदर्यमानाः 'पंचविसई' पञ्चविंशतिः पडिवत्तीओ' प्रतिपत्तयः अन्यतैर्थिकमतरूपाः 'पण्णत्ता' प्रज्ञप्ताः कथिताः 'तं जहा' तद्यथा ता यथा- 'तत्थ' तत्र पञ्चविंशतिप्रतिपत्तिवादिषु मध्ये 'एगे' एके प्रथमाः ‘एवं' एवम्-वक्ष्यमाणप्रकारेण 'आहंसु' आहुः कथयन्ति 'ता' तावत् 'अणुसमयमेव' अनुसमयमेव समयं समर्य प्रति-प्रतिसमयमित्यर्थः मरिए' सूर्यः 'पोरिसीं छायं' गैरुषी छायाम् । अत्र पौरुषीछाया लेश्यावशेन संपधतेऽतः पौरुषी छायेति शब्देन लेश्या ग्रहीतल्या कारणे कार्योपचारात् तेन लेश्यां निवर्तयतीति भावः । उप संहारः 'एगे' एके प्रथमा ‘एवं' एवम् पूर्वोक्तप्रकारेण 'आहेसु' आहुरिति १ ! 'एवं' एवत् अनया रीत्या 'एगे पुण' एके द्वितीयाः पुनः 'एचमाहंसु' एवम् वक्ष्यमाणप्रकारेण आहुः कथयन्ति-'ता' तावत् 'अणुमुहुत्तमेव' अनुमुहूर्तमेव-प्रतिमुहूर्त 'मूरिए' सूर्यः 'पोरिसिं छायं पौरुषों छायां 'णिवत्तेइ' निवर्तयति करोति :एगे' ऐके द्वितीयाः ‘एवं' एवम् पूर्वोक्तप्रकारेण 'आइंसु' आहुः कथयन्ति २ । 'एएणं अभिलापेणं' एतेन प्रथमेन द्वितीयेन च अभिलापेन प्रथमद्वितोयामिलापप्रकारणे 'जाश्रो चेव' या एव 'ओयसंठिईए' ओजःसंस्थितौ षष्ठमाभृतोके ओनःसंस्थितिप्रकारेण 'पंचवीसई पडिवत्तीओ' पञ्चविंशतिः प्रतित्तयः प्रतिपादिता 'ताओ चेव' - ता एवात्रापि समयानन्तरं समयमुहूर्तानन्तरमहोरात्रादिरूपाः 'णेयव्वाओ' ज्ञातव्याः । कियत्पर्यन्तमित्याह-जावेत्यादि । 'जाव' यावत् तासु पञ्चविंशतिप्रतिपत्तिषु चरमप्रतिपत्तिः उत्सपण्यवसर्पिणीरूपाऽऽयाति तावदिति तामेव चरमप्रतिपत्ति सूत्रकारः स्वयं