________________
अथ नवमं प्राभृतं प्रारभ्यते तदेवमुक्तमष्टमं प्राभृतम्, तत्र जम्बूद्वीपे सूर्योदयमर्यादा प्रदर्शिता । अथ नवमं प्राभृतं प्रारभ्यते, अत्र पूर्व द्वारकथनावसरे 'कइ कट्ठा पोरिसी छाया' कतिकाष्ठा पौरुषी छाया, इति कथितम्, सूर्यः पौरुषी छायां कतिकाष्ठां निवर्तयति ! इत्यर्थाधिकारो निरूपयिष्यते इति सम्बन्धेनायातस्यास्य नवमस्य प्राभृतस्येदमादिमं सूत्रम्-'ता कइकडं' इत्यादि ।
मूलम्-ता कइकडं ते सूरिए पोरिसीं छाया णिवत्तेइ आहितेति वएज्जा, तत्थ खलु इमाओ तिण्णि पडिवत्तीओ पण्णताओ, तं जहा-तत्थ एगे एवमाहंसु-ताजेणं पोग्गला सूरियस्स लेस्सं फुसंति ते णं पोग्गला संतप्पंति, ते णं पोग्गला संतप्पमाणा तयाणंतराई बाहिराई पोग्गलाई संताविति-त्ति एस णं से समिए तावखेत्ते, एगे एवमासु।१। एगे पुण एवमाहंसु-ता जेणं पोग्गला सूरियस्स लेस्सं फुसंति तेणं पोग्गला नो संतप्पंति, ते णं पोग्गला असंतप्पमाणा तयाणंतराई बाहिराइं पोग्गलाई नो संतावेंति एस ण से समिए तावखेत्ते, एगे एवमाहंसु ।२। एगे पुण एवमाइंसु-ता जे णं पोग्गला सूरियस्स लेस्सं फुसंति ते णं पोग्गला अत्थेगइया संतति, अत्थे गइया नो संतति, अत्थेगइया संतप्पमाणा तयाणंतराई बाहिराई पोग्गलाई संताति, अत्थेगइयाअसंतप्पमाणा तयाणंतराई बाहिराई पोग्गलाई नो सतावेंति, एस णं से समिए तावखेत्ते, एगे एवमाहंसु ।३।
वयं पुण एवं वयामो–ता जाओ इमाओ चंदिमसूरियाणं देवाणं विमाणेहितो लेस्साओ बहिया अभिनिस्सडाओ ताओ पयाविति, एयासि ण लेस्साणं अंतरेसु २ अण्णयराओ छिन्नलेस्साओ संमुच्छंति, तए णं ताओ छिन्नलेस्साओ समुच्छियाओ समाणीओ तयाणंतराइं बाहिराइं पोग्गलाई संताविति त्ति, एस ण से समिए ताव खेत्ते ॥०॥
छाया--तावत् कतिकाष्ठां ते सूर्यः पौरुषीं छायां निवर्तयति आख्यातमिति वदेत् । तत्र खलु इमास्तिस्रः प्रतिपत्तयः प्रज्ञप्ताः, तद्यथा-तत्र पके एवमाहुः तावत् ये खलु पुद्गलाः सूर्यस्य लेश्यां स्पृशन्ति ते खलु पुद्गलाः संतप्यन्ते, खलु पुद्गलाः संतप्यमानाः तदनन्तरान् बाह्यान् पुद्गलान् संतापयन्ति इति पतत् खलु तत् समितं तापक्षेत्रम् , एके पवमाहुः ।। एके पुनरेवमाहुः--तावत् ये खलु पुद्गलाः सूर्यस्य लेश्यां स्पृशन्ति ते खलु पुद्गला नो संतप्यन्ते, ते स्खलु पुद्गला असंतप्यमानाः तदनन्तरान् बाह्यान् पुद्गलान नो संतापयन्ति, पतत् खलु तत् समितं तापक्षेत्रम् एके एवमाहुः ।२। एके पुनरेवमाहुः-- तावत् ये खलु पुद्गलाः सूर्यस्य लेश्यां स्पृशन्ति ते खलु पुद्गलाः अस्त्येके संतप्यन्ते,